भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.127

1.127.1

॥11॥.
-र्व्_2:1।12-
(र्व्_1,127)
अग्निम् । होतारम् । मन्ये । दास्वन्तम् । वसुम् । सूनुम् । सहसः । जात-वेदसम् । विप्रम् । न । जात-वेदसम् । यः । ऊर्ध्वया । सु-अध्वरः । देवः । देवाच्या । कृपा । घृतस्य । वि-भ्राष्टिम् । अनु । वष्टि । शोचिषा । आजुह्वानस्य । सर्पिषःअ

1.127.2

यजिष्ठम् । त्वा । यजमानाः । हुवेम । ज्येष्ठम् । अङ्गिरसाम् । विप्र । मन्म-भिः । विप्रेभिः । शुक्र । मन्म-भिः । परिज्मानम्-इव । द्याम् । होतारम् । चर्षणीनाम् । शोचिः-केशम् । वृषणम् । यम् । इमाः । विशः । प्र । अवन्तु । जूतये । विशः

1.127.3

सः । हि । पुरु । चित् । ओजसा । विरुक्मता । दीद्यानः । भवति । द्रुहम्-तरः । परशुः । न । द्रुहन्तरः । वीळु । चित् । यस्य । सम्-ऋतौ । श्रुवत् । वनाइव । यत् । स्थिरम् । निः-सहमाणः । यमते । न । अयते । धन्व-सहा । न । अयते

1.127.4

दृळ्हा । चित् । अस्मै । अनु । दुः । यथा । विदे । तेजिष्ठाभिः । अरणि-भिः । दाष्टि । अवसे । अग्नये । दाश्टि । अवसे । प्र । यः । पुरूणि । गाहते । तक्षत् । वनाइव । शोचिषा । स्थिरा । चित् । अन्ना । नि । रिणाति । ओजसा । नि । स्थिराणि । चित् । ओज्सा

1.127.5

तम् । अस्य । पृक्षम् । उपरासु । धीमहि । नक्तम् । यः । सुदर्श-तरः । दिवातरात् । अप्र-आयुषे । दिवातरात् । आत् । अस्य । आयुः । ग्रभण-वत् । वीळु । शर्म । न । सूनवे । भक्तम् । अभक्तम् । अवः । व्यन्तः । अजराः । अग्नयः । व्यन्तः । अजराः

1.127.6

॥12॥.
-र्व्_2:1।13-
सः । हि । शर्धः । न । मारुतम् । तुवि-स्वणिः । अप्नस्वतीषु । उर्वरासु इष्टनिः । आर्तनासु । इष्टनिः । आदत् । हव्यानि । आददिः । यज्ञस्य । केतुः । अहर्णा । अध । स्म । अस्य । हर्षतः । हृषीवतः । विश्वे । जुषन्त । पन्थाम् । नरः । शुभे । न । पन्थाम्

1.127.7

द्विता । यत् । ईम् । कीस्तासः । अभि-द्यवः । नमस्यन्तः । उप-वोचन्त । भृगवः । मश्नन्तः । दाशा । भृगवः । अग्निः । ईशे । वसूनाम् । शुचिः । यः । धर्णिः । एषाम् । प्रियान् । अपि-धीन् । वनिषीष्ट । मेधिरः । आ । वनिषीश्ट । मेधिरः

1.127.8

विश्वासाम् । त्वा । विशाम् । पतिम् । हवामहे । सर्वासाम् । समानम् । दम्-पतिम् । भुजे । सत्य-गिर्वाहसम् । भुजे । अतिथिम् । मानुषाणाम् । पितुः । न । यस्य । आसया । अमी इति । च । विश्वे । अमृतासः । आ । वयः । हव्या । देवेषु । आ । वयः

1.127.9

त्वम् । अग्ने । सहसा । सहन्-तमः । शुष्मिन्-तमः । जायसे । देव-तातये । रयिः । न । देव-तातये । शुष्मिन्-तमः । हि । ते । मदः । द्युम्निन्-तमः । उत । क्रतुः । अध । स्म । ते । परि । चरन्ति । अजर । श्रुष्टीवानः । न । अजर

1.127.10

प्र । वः । महे । सहसा । सहस्वते । उषः-बुधे । पशु-से । न । अग्नये । स्तोमः । बभूतु । अग्नये । प्रति । यत् । ईम् । हविष्मान् । विश्वासु । क्षासु । जोगुवे । अग्रे । रेभः । न । जरते । ऋषूणाम् । जूर्णिः । होता । ऋषूणाम्

1.127.11

सः । नः । नेदिष्ठम् । ददृशानः । आ । भर । अग्ने । देवेभिः । स-चनाः । सु-चेतुना । महः । रयः । सु-चेतुना । महि । शविष्ठ । नः । कृधि । सम्-चक्षे । भुजे । अस्यै । महि । स्तोतृ-भ्यः । मघ-वन् । सु-वीर्यम् । मथीः । उग्रः । न । शवसा

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc