भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.126

1.126.1

॥10॥.
-र्व्_2:1।11-
(र्व्_1,126)
अमन्दान् । सोमान् । प्र । भरे । मनीषा सिन्धौ । अधि । क्षियतः । भाव्यस्य । यः । मे । सहस्रम् । अमिमीत । सवान् । अतूर्तः । राजा । श्रवः । इच्छमानः

1.126.2

शतम् । राज्ञः । नाधमानस्य । निष्कान् । शतम् । अश्वान् । प्र-यतान् । सद्यः । आदम् । शतम् । कक्षीवान् । असुरस्य । गोनाम् । दिवि । श्रवः । अजरम् । आ । ततान

1.126.3

उप । मा । श्यावाः । स्वनयेन । दत्ताः । वधू-मन्तः । दश । रथासः । अस्थुः । षष्टिः । सहस्रम् । अनु । गव्यम् । आ । अगात् । सनत् । कक्षीवान् । अभि-पित्वे । अह्नाम्

1.126.4

चत्वारिंशत् । दश-रथस्य । शोणाः । सहस्रस्य । अग्रे । श्रेणिम् । नयन्ति । मद-च्युतः । कृशन-वतः । अत्यान् । कक्षीवन्तः । उत् । अमृक्षन्त । पज्राः

1.126.5

पूर्वाम् । अनु । प्र-यतिम् । आ । ददे । वः । त्रीन् । युक्तान् । अष्टौ । अरि-धायसः । गाः । सु-बन्धवः । ये । विश्याः-इव । व्राः । अनस्वन्तः । श्रवः । ऐषन्त । पज्राः

1.126.6

आगधिता । परि-गधिता । या । कशीकाइव । जङ्गहे । ददाति । मह्यम् । यादुरी । याशूनाम् । भोज्या । शता

1.126.7

उप-उप । मे । परा । मृश । मा । मे । दभ्राणि । मन्यथाः । सर्वा । अहम् । अस्मि । रोमशा । गन्धारीणाम्-इव । अविका

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc