भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.128

1.128.1

॥13॥.
-र्व्_2:1।14-
(र्व्_1,128)
अयम् । जायत । मनुषः । धरीमणि । होता । यजिष्ठः । उशिजाम् । अनु । व्रतम् । अग्निः । स्वम् । अनु । व्रतम् । विश्व-श्रुष्टिः । सखि-यते । रयिः-इव । श्रवस्यते । अदब्धः । होता । नि । सदत् । इळः । पदे । परि-वीतः । इळः । पदे

1.128.2

तम् । यज्ञ-साधम् । अपि । वातयामसि । ऋतस्य । पथा । नमसा । हविष्मता । देव-ताता । हविष्मता । सः । नः । ऊर्जाम् । उप-आभृति । अया । कृपा । न । जूर्यति । यम् । मातरिश्वा । मनवे । परावतः । देवम् । भारितिभाः । परावतः

1.128.3

एवेन । सद्यः । परि । एति । पार्थिवम् । मुहुः-गीः । रेतः । वृषभः । कनिक्रदत् । दधत् । रेतः । कनिक्रदत् । शतम् । चक्षाणः । अक्ष-भिः । देवः । वनेषु । तुर्वणिः । सदः । दधानः । उपरेषु । सानुषु । अग्निः । परेषु । सानुषु

1.128.4

सः । सु-क्रतुः । पुरः-हितः । दमे--दमे । अग्निः । यज्ञस्य । अध्वरस्य । चेतति । क्रत्वा । यज्ञस्य । चेतति । क्रत्वा । वेधाः । इषु-यते । विश्वा । जातानि । पस्पशे । यतः । घृत-श्रीः । अतिथिः । अजायत । वह्निः । वेधाः । अजायत

1.128.5

क्रत्वा । यत् । अस्य । तविषीषु । पृञ्चते । अग्नेः । अवेन । मरुताम् । न । भोज्या । इषिराय । न । भोज्या । सः । हि । स्म । दानम् । इन्वति । वसूनाम् । च । मज्मना । सः । नः । त्रासते । दुः-इतात् । अभि-ह्नुतः । शंसात् । अघात् । अभि-ह्नुतः

1.128.6

॥14॥.
-र्व्_2:1।15-
विश्वः । वि-हायाः । अरतिः । वसुः । दधे । हस्ते । दक्षिणे । तरणिः । न । शिश्रथत् । श्रवस्यया । न । शिश्रथत् । विश्वस्मै । इत् । इषुध्यते । देव-त्रा । हव्यम् । आ । ऊहिषे । विश्वस्मै । इत् । सु-कृते । वारम् । ऋण्वति । अग्निः । द्वारा । वि । ऋण्वति

1.128.7

सः । मानुषे । वृजने । शम्-तमः । हितः । अग्निः । यज्ञेषु । जेन्यः । न । विश्पतिः । प्रियः । यज्ञेषु । विश्पतिह् । सः । हव्या । मानुषाणाम् । इळा । कृतानि । पत्यते । सः । नः । त्रासते । वरुणस्य । धूर्तेः । महः । देवस्य । धूर्तेः

1.128.8

अग्निम् । होतारम् । ईळते । वसु-धितिम् । प्रियम् । चेतिष्ठम् । अरतिम् । नि । एरिरे । हव्य-वाहम् । नि । एरिरे । विश्व-आयुम् । विश्व-वेदसम् । होतारम् । यजतम् । कवि म् । देवासः । रण्वम् । अवसे । वसु-यवः । गीः-भिः । रण्वम् । वसु-यवः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc