भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.125

1.125.1

॥9॥.
-र्व्_2:1।10-
(र्व्_1,125)
प्रात्रिति । रत्नम् । प्रातः-इत्वा । दधाति । तम् । चिकित्वान् । प्रति-गृह्य । नि । धत्ते । तेन । प्रजाम् । वर्धयमानः । आयुः । रायः । पोषेण । सचते । सु-वीरः

1.125.2

सु-गुः । असत् । सु-हिरण्यः । सु-अश्वः । बृहत् । अस्मै । वयः । इन्द्रः । दधाति । यः । त्वा । आयन्तम् । वसुना । प्रातः-इत्वः । मुक्षीजयाइव । पदिम् । उत्-सिनाति

1.125.3

आयम् । अद्य । सु-कृतम् । प्रातः । इच्छन् । इष्टेः । पुत्रम् । वसुमता । रथेन । अंशोः । सुतम् । पायय । मत्सरस्य । क्षयत्-वीरम् । वर्धय । सूनृताभिः

1.125.4

उप । क्षरन्ति । सिन्धवः । मयः-भुवः । ईजानम् । च । यक्ष्यमाणम् । च । धेनवः । पृणन्तम् । च । पपुरिम् । च । श्रवस्यवः । घृतस्य । धाराः । उप । यन्ति । विश्वतः

1.125.5

नाकस्य । पृष्ठे । अधि । तिष्ठति । श्रितः । यः । पृणाति । सः । ह । देवेषु । गच्छति । तस्मै । आपः । घृतम् । अर्षन्ति । सिन्धवः । तस्मै । इयम् । दक्षिणा । पिन्वते । सदा

1.125.6

दक्षिणावताम् । इत् । इमानि । चित्रा । दक्षिणावताम् । दिवि । सूर्यासः । दक्षिणावन्तः । अमृतम् । भजन्ते । दक्षिणावन्तः । प्र । तिरन्ते । आयुः

1.125.7

मा । पृणन्तः । दुः-इतम् । एनः । आ । अरन् । मा । जारिषुः । सूरयः । सु-व्रतासः । अन्यः । तेषाम् । परि-धिः । अस्तु । कः । चित् । अपृणन्तम् । अभि । सम् । यन्तु । शोकाः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc