ऋग्वेदसंहिता, पदपाठ · अध्याय 1.124
॥6॥.
-र्व्_2:1।7-
(र्व्_1,124)
उषाः । उच्छन्ती । सम्-इधाने । अग्नौ । उत्-यन् । सूर्यः । उर्विया । ज्योतिः । अश्रेत् । देवः । नः । अत्र । सविता । नु । अर्थम् । प्र । असावीत् । द्वि-पत् । प्र । चतुः-पत् । इत्यै
अमिनती । दैव्यानि । व्रतानि । प्र-मिनती । मनुष्या । युगानि । ईयुषीणाम् । उप-मा । शश्वतीनाम् । आयतीनाम् । प्रथमा । उषाः । वि । अद्यौत्
एषा । दिवः । दुहिता । प्रति । अदर्शि । ज्योतिः । वसाना । समना । पुरस्तात् । ऋतस्य । पन्थाम् । अनु । एति । साधु । प्रजानती-इव । न । दिशः । मिनाति
उपो इति । अदर्शि । शुन्ध्युवः । न । वक्षः । नोधाः-इव । आविः । अकृत । प्रियाणि । अद्म-सत् । न । ससतः । बोधयन्ती । शश्वत्-तमा । आ । अगात् । पुनः । आईयुषीणाम्
पूर्वे । अर्धे । रजसः । अप्त्यस्य । गवाम् । जनित्री । अकृत । प्र । केतुम् । वि । ओं इति । प्रथते । वि-तरम् । वरीयः । आ । उभा । पृणन्ती । पित्रोः । उप-स्था
॥7॥.
-र्व्_2:1।8-
एव । इत् । एषा । पुरु-तमा । दृशे । कम् । न । अजामिम् । न । परि । वृणक्ति । जामिम् । अरेपसा । तन्वा । शाशदाना । न । अर्भात् । ईषते । न । महः । वि-भाती
अभ्राताइव । पुंसः । एति । प्रतीची । गर्त-आरुक्-इव । सनये । धनानाम् । जायाइव । पत्ये । उशती । सु-वासाः । उषाः । हस्राइव । नि । रिणीते । अप्सः
खसा । स्वस्रे । ज्यायस्यै । योनिम् । अरैक् । अप । एति । अस्याः । प्रति-चक्ष्य-इव । वि-उच्छन्ती । रश्मि-भिः । सूर्यस्य । अञ्जि । अङ्क्ते । समनगाः-इव । व्राः
आसाम् । पूर्वासाम् । अह-सु । स्वसृॠणाम् । अपरा । पूर्वाम् । अभि । एति । पश्चात् । ताः । प्रत्न-वत् । नव्यसीः । नूनम् । अस्मे इति । रेवत् । उच्छन्तु । सु-दिनाः । उषसः
प्र । बोधय । उषः । पृणतः । मघोनि । अबुध्यमानाः । पणयः । ससन्तु । रेवत् । उच्छ । मघवत्-भ्यः । मघोनि । रेवत् । स्तोत्रे । सूनृते । जारयन्ती
॥8॥.
-र्व्_2:1।9-
अव । इयम् । अश्वैत् । युवतिः । पुरस्तात् । युङ्क्ते । गवाम् । अरुणानाम् । अनीकम् । वि । नूनम् । उच्छात् । असति । प्र । केतुः । गृहम्-गृहम् । उप । तिष्ठाते । अग्निः
उत् । ते । वयः । चित् । वसतेः । अपप्तन् । नरः । च । ये । पितु-भाजः । वि-उष्टौ । अमा । सते । वहसि । भूरि । वामम् । उषः । देवि । दाशुषे । मर्त्याय
अस्तोढवम् । स्तोम्याः । ब्रह्मणा । मे । अवीवृधध्वम् । उशतीः । उषसः । युष्माकम् । देवीः । अवसा । सनेम । सहस्रिणम् । च । शतिनम् । च । वाजम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0