भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.123

1.123.1

॥3॥.
-र्व्_2:1।4-
(र्व्_1,123)
पृथुः । रथः । दक्षिणायाः । अयोजि । आ । एनम् । देवासः । अमृतासः । अस्थुः । कृष्णात् । उत् । अस्थात् । अर्या । वि-हायाः । चिकित्सन्ती । मानुषाय । क्षयाय

1.123.2

पूर्वा । विश्वस्मात् । भुवनात् । अबोधि । जयन्ती । वाजम् । बृहती । सनुत्री । उच्चा । वि । अख्यत् । युवतिः । पुनः-भूः । आ । उषाः । अगन् । प्रथमा । पूर्व-हूतौ

1.123.3

यत् । अद्य । भागम् । वि-भजासि । नृ-भ्यः । उषः । देवि । मर्त्य-त्रा । सु-जाते । देवः । नः । अत्र । सविता । दमूनाः । अनागसः । वोचति । सूर्याय

1.123.4

गृहम्-गृहम् । अहना । याति । अच्छ । दिवे--दिवे । अधि । नाम । दधाना । सिसासन्ती । द्योतना । शश्वत् । आ । अगात् । अग्रम्-अग्रम् । इत् । भजते । वसूनाम्

1.123.5

भगस्य । स्वसा । वरुणस्य । जामिः । उषः । सूनृते । प्रथमा । जरस्व । पश्चा । सः । दध्याः । यः । अघस्य । धाता । जयेम । तम् । दक्षिणया । रथेन

1.123.6

॥4॥.
-र्व्_2:1।5-
उत् । ईरताम् । सूनृताः । उत् । पुरम्-धीः । उत् । अग्नयः । शुशुचानासः । अस्थुः । स्पार्हा । वसूनि । तमसा । अप-गूळ्हा । आविः । कृण्वन्ति । उषसः । वि-भातीः

1.123.7

अप । अन्यत् । एति । अभि । अन्यत् । एति । विषुरूपेइतिविषु-रूपे । अहनी इति । सम् । चरेतेइति । परि-क्षितोः । तमः । अन्या । गुहा । अकः । अद्यौत् । उषाः । शोशुचता । रथेन

1.123.8

स-दृशीः । अद्य । स-दृशीः । इत् । ओं इति । श्वः । दीर्घम् । सचन्ते । वरुणस्य । धाम । अनवद्याः । त्रिंशतम् । योजनानि । एकाएका । क्रतुम् । परि । यन्ति । सद्यः

1.123.9

जानती । अह्नः । प्रथमस्य । नाम । शुक्रा । कृष्णात् । अजनिष्ट । श्वितीची । ऋतस्य । योषा । न । मिनाति । धाम । अहः-अहः । निः-कृतम् । आचरन्ती

1.123.10

कन्याइव । तन्वा । शाशदाना । एषि । देवि । देवम् । इयक्षमाणम् । सम्-स्मयमाना । युवतिः । पुरस्तात् । आविः । वक्षांसि । कृणुषे । वि-भाती

1.123.11

॥5॥.
-र्व्_2:1।6-
सु-सङ्काशा । मातृमृष्टाइव । योषा । आविः । तन्वम् । कृणुषे । दृशे । कम् । भद्रा । त्वम् । उषः । वि-तरम् । वि । उच्छ । न । तत् । ते । अन्याः । उषसः । नशन्त

1.123.12

अश्व-वतीः । गो--मतीः । विश्व-वाराः । यतमानाः । रश्मि-भिः । सूर्यस्य । परा । च । यन्ति । पुनः । आ । च । यन्ति । भद्रा । नाम । वहमानाः । उषसः

1.123.13

ऋतस्य । रश्मिम् । अनु-यच्छमाना । भद्रम्-भद्रम् । क्रतुम् । अस्मासु । धेहि । उषः । नः । अद्य । सु-हवा । वि । उच्छ । अस्मासु । रायः । मघवत्-सु । च । स्युरिति स्युः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc