ऋग्वेदसंहिता, पदपाठ · अध्याय 1.122
॥26॥.
-र्व्_2:1।1-
(र्व्_1,122)
प्र । वः । पान्तम् । रघु-मन्यवः । अन्धः । यज्ञम् । रुद्राय । मीळ्हुषे । भरध्वम् । दिवः । अस्तोषि । असुरस्य । वीरैः । इषुध्याइव । मरुतः । रोदस्योः
पत्नी-इव । पूर्व-हूतिम् । ववृधध्यै । उषसानक्ता । पुरुधा । विदानेइति । स्तरीः । न । अत्कम् । वि-उतम् । वसाना । सूर्यस्य । श्रिया । सु-दृशी । हिरण्यैः
ममत्तु । नः । परि-ज्मा । वसर्हा । ममत्तु । वातः । अपाम् । वृषण्-वान् । शिशीतम् । इन्द्रापर्वता । युवम् । नः । तत् । नः । विश्वे । वरिवस्यन्तु । देवाः
उत । त्या । मे । यशसा । श्वेतनायै । व्यन्ता । पान्ता । औशिजः । हुवध्यै । प्र । वः । नपातम् । अपाम् । कृणुध्वम् । प्र । मातरा । रास्पिनस्य । आयोः
आ । वः । रुवण्युम् । औशिजः । हुवध्यै । घोषाइव । शंसम् । अर्जुनस्य । नंशे । प्र । वः । पूष्णे । दावने । आ । अच्छ । वोचेय । वसु-तातिम् । अग्नेः
॥1॥.
-र्व्_2:1।2-
श्रुतम् । मे । मित्रावरुणा । हवा । इमा । उत । श्रुतम् । सदने । विश्वतः । सीम् । श्रोतु । नः । श्रोतु-रातिः । सु-श्रोतुः । सु-क्षेत्रा । सिन्धुः । अत्-भिः
स्तुषे । सा । वाम् । वरुण । मित्र । रातिः । गवाम् । शता । पृक्ष-यामेषु । पज्रे । श्रुत-रथे । प्रिय-रथे । दधानाः । सद्यः । पुष्टिम् । नि-रुन्धानासः । अग्मन्
अस्य । स्तुषे । महि-मघस्य । राधः । सचा । सनेम । नहुषः । सु-वीराः । जनः । यः । पज्रेभ्यः । वाजिनी-वान् । अश्व-वतः । रथिनः । मह्यम् । सूर् इः
जनः । यः । मित्रावरुणौ । अभि-ध्रुक् । अपः । न । वाम् । सुनोति । अक्ष्णयाध्रुक् । स्वयम् । सः । यक्ष्मम् । हृदये । नि । धत्त । आप । यत् । ईम् । होत्राभिः । ऋत-वा
सः । व्राधतः । नहुषः । दम्-सुजूतः । शर्धः-तरः । नराम् । गूर्त-श्रवाः । विसृष्ट-रातिः । याति । बाळ्ह-सृत्वा । विश्वासु । पृत्-सु । सदम् । इत् । शूरः
॥2॥.
-र्व्_2:1।3-
अध । ग्मन्त । नहुषः । हवम् । सूरेः । श्रोत । राजानः । अमृतस्य । मन्द्राः । नभः-जुवः । यत् । निरवस्य । राधः । प्र-शस्तये । महिना । रथ-वते
एतम् । शर्धम् । धाम । यस्य । सूरेः । इति । अवोचन् । दश-तयस्य । नंशे । द्युम्नानि । येषु । वसु-तातिः । ररन् । विश्वे । सन्वन्तु । प्र-भृथेषु । वाजम्
मन्दामहे । दश-तयस्य । धासेः । द्विः । यत् । पञ्च । बिभ्रतः । यन्ति । अन्ना । किम् । इष्ट-अश्वः । इष्ट-रश्मिः । एते । ईशानासः । तरुषः । ऋञ्जते । नॄन्
हिरण्य-कर्णम् । मणि-ग्रीवम् । अर्णः । तम् । नः । विश्वे । वरिवस्यन्तु । देवाः । अर्यः । गिरः । सद्यः । आ । जग्मुषीः । आ । उस्राः । चाकन्तु । उभयेषु । अस्मे इति
चत्वारः । मा । मशर्शारस्य । शिश्वः । त्रयः । राज्ञः । आयवसस्य । जिष्णोः । रथः । वाम् । मित्रावरुणा । दीर्घ-अप्साः । स्यूम-गभस्तिः । सूरः । न । अद्यौत्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0