भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.12

1.12.1

॥21॥.
-र्व्_1:1।22-
(र्व्_1,12)
अग्निम् । दूतम् । वृणीमहे । होतारम् । विश्व-वेदसम् । अस्य । यज्ञस्य । सु-क्रतुम्

1.12.2

अग्निम्-अग्निम् । हवीम-भिः । सदा । हवन्त । विश्पतिम् । हव्य-वाहम् । पुरु-प्रियम्

1.12.3

अग्ने । देवान् । इह । आ । वह । जज्ञानः । वृक्त-बर्हिषे । असि । होता । नः । ईड्यः

1.12.4

तान् । उशतः । वि । बोधय । यत् । अग्ने । यासि । दूत्यम् । देवैः । आ । सत्सि । बर्हिषि

1.12.5

घृत-आहवन । दीदि-वः । प्रति । स्म । रिषतः । दह । अग्ने । त्वम् । रक्षस्विनः

1.12.6

अग्निना । अग्निः । सम् । इध्यते । कविः । गृह-पतिः । युवा । हव्य-वाट् । जुहु-आस्यः

1.12.7

॥22॥.
-र्व्_1:1।23-
कविम् । अग्निम् । उप । स्तुहि । सत्य-धर्माणम् । अध्वरे । देवम् । अमीव-चातनम्

1.12.8

यः । त्वाम् । अग्ने । हविः-पतिः । दूतम् । देव । सपर्यति । तस्य । स्म । प्र-अविता । भव

1.12.9

यः । अग्निम् । देव-वीतये । हविष्मान् । आविवासति । तस्मै । पावक । मृळय

1.12.10

सः । नः । पावक । दीदि-वः । अग्ने । देवान् । इह । आ । वह । उप । यज्ञम् । हविः । च । नः

1.12.11

सः । नः । स्तवानः । आ । भर । गायत्रेण । नवीयसा । रयिम् । वीर-वतीम् । इषम्

1.12.12

अग्ने । शुक्रेण । शोचिषा । विश्वाभिः । देवहूति-भिः । इमम् । स्तोमम् । जुषस्व । नः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc