भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.13

1.13.1

॥23॥.
-र्व्_1:1।24-
(र्व्_1,13)
सु-समिद्धः । नः । आ । वह । देवान् । अग्ने । हविष्मते । होतरिति । पावक । यक्षि । च

1.13.2

मधु-मन्तम् । तनू-नपात् । यज्ञम् । देवेषु । नः । कवे । अद्य । कृणुहि । वीतये

1.13.3

नराशंसम् । इह । प्रियम् । अस्मिन् । यज्ञे । उप । ह्वये । मधु-जिह्वम् । हविः-कृतम्

1.13.4

अग्ने । सुख-तमे । रथे । देवान् । इळितः । आ । वह । असि । होता । मनुः-हितः

1.13.5

स्तृणीत । बर्हिः । आनुषक् । घृत-पृष्ठम् । मनीषिणः । यत्र । अमृतस्य । चक्षणम्

1.13.6

वि । श्रयन्ताम् । ऋत-वृधः । द्वारः । देवीः । असश्चतः । अद्य । नूनम् । च । यष्टवे

1.13.7

॥24॥.
-र्व्_1:1।25-
नक्तोषासा । सु-पेशसा । अस्मिन् । यज्ञे । उप । ह्वये । इदम् । नः । बर्हिः । आसदे

1.13.8

ता । सु-जिह्वौ । उप । ह्वये । होतारा । दैव्या । कवी इति । यज्ञम् नः । यक्षताम् । इमम्

1.13.9

इळा । सरस्वती । मही । तिस्रः । देवीः । मयः-भुवः । बर्हिः । सीदन्तु । अस्रिधः

1.13.10

इह । त्वष्टारम् । अग्रियम् । विश्व-रूपम् । उप । ह्वये । अस्माकम् । अस्तु । केवलः

1.13.11

अव । सृज । वनस्पते । देव । देवेभ्यः । हविः । प्र । दातुः । अस्तु । चेतनम्

1.13.12

स्वाहा । यज्ञम् । कृणोतन । इन्द्राय । यज्वनः । गृहे । तत्र । देवान् । उप । ह्वये

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc