ऋग्वेदसंहिता, पदपाठ · अध्याय 1.11
॥20॥.
-र्व्_1:1।21-
(र्व्_1,11)
इन्द्रम् । विश्वाः । अवीवृधन् । समुद्र-व्यचसम् । गिरः । रथि-तमम् । रथीनाम् । वाजानाम् । सत्-पतिम् । पतिम्
सख्ये । ते । इन्द्र । वाजिनः । मा । भेम । शवसः । पते । त्वाम् । अभि । प्र । नोनुमः । जेतारम् । अपराजितम्
पूर्वीः । इन्द्रस्य । रातयः । न । वि । दस्यन्ति । ऊतयः । यदि । वाजस्य । गो--मतः । स्तोतृ-भ्यः । मंहते । मघम्
पुराम् । भिन्दुः । युवा । कविः । अमित-ओजाः । अजायत । इन्द्रः । विश्वस्य । कमर्णः । धर्ता । वज्री । पुरु-स्तुतः
त्वम् । वलस्य । गो--मतः । अप । अवः । अद्रि-वः । बिलम् । त्वाम् । देवाः । अबिभ्युषः । तुज्यमानासः । आविषुः
तव । अहम् । शूर । राति-भिः । प्रति । आयम् । सिन्धुम् । आवदन् । उप । अतिष्ठन्त । गिर्वणः । विदुः । ते । तस्य । कारवः
मायाभिः । इन्द्र । मायिनम् । त्वम् । शुष्णम् । अव । अतिरः । विदुः । ते । तस्य । मेधिराः । तेषाम् । श्रवांसि । उत् । तिर
इन्द्रम् । ईशानम् । ओजसा । अभि । स्तोमाः । अनूषत । सहस्रम् । यस्य । रातयः । उत । वा । सन्ति । भूयसीः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0