ऋग्वेदसंहिता, पदपाठ · अध्याय 1.119
॥19॥.
-र्व्_1:8।20-
(र्व्_1,119)
आ । वाम् । रथम् । पुरु-मायम् । मनः-जुवम् । जीर-अश्वम् । यज्ञियम् । जीवसे । हुवे । सहस्र-केतुम् । वनिनम् । शतत्-वसुम् । श्रुष्टी-वानम् । वरिवः-धाम् । अभि । प्रयः
ऊर्ध्वा । धीतिः । प्रति । अस्य । प्र-यामनि । अधायि । शस्मन् । सम् । अयन्ते । आ । दिशः । स्वदामि । घर्मम् । प्रति । यन्ति । ऊतयः । आ । वाम् । ऊर्जानी । रथम् । अश्विना । अरुहत्
सम् । यत् । मिथः । पस्पृधानासः । अग्मत । शुभे । मखाः । अमिताः । जायवः । रणे । युवोः । अह । प्रवणे । चेकिते । रथः । यत् । अश्विना । वहथः । सूरिम् । आ । वरम्
युवम् । भुज्युम् । भुरमाणम् । वि-भिः । गतम् । स्वयुक्ति-भिः । नि-वहन्ता । पितृ-भ्यः । आ । यासिष्टम् । वर्तिः । वृषणा । वि-जेन्यम् । दिवः-दासाय । महि । चेति । वाम् । अवः
युवोः । अश्विना । वपुषे । युवायुजम् । रथम् । वानी इति । येमतुः । अस्य । शर्ध्यम् । आ । वाम् । पति-त्वम् । सख्याय । जग्मुषी । योषा । अवृणीत । जेन्या । युवाम् । पती इति
॥20॥.
-र्व्_1:8।21-
युवम् । रेभम् । परि-सूतेः । उरुष्यथः । हिमेन । घर्मम् । परि-तप्तम् । अत्रये । युवम् । शयोः । अवसम् । पिप्यथुः । गवि । प्र । दीर्घेण । वन्दनः । तारि । आयुषा
युवम् । वन्दनम् । निः-ऋतम् । जरण्यया । रथम् । न । दस्रा । करणा । सम् । इन्वथः । क्षेत्रात् । आ । विप्रम् । जनथः । विपन्यया । प्र । वाम् । अत्र । विधते । दंसना । भुवत्
अगच्छतम् । कृपमाणम् । परावति । पितुः । स्वस्य । त्यजसा । नि-बाधितम् । स्वः-वतीः । इतः । ऊतीः । युवोः । अह । चित्राः । अभीके । अभवन् । अभिष्टयः
उत । स्या । वाम् । मधु-मत् । मक्षिका । अरपत् । मदे । सोमस्य । औशिजः । हुवन्यति । युवम् । दधीचः । मनः । आ । विवासथः । अथ । शिरः । प्रति । वाम् । अश्व्यम् । वदत्
युवम् । पेदवे । पुरु-वारम् । अश्विना । स्पृधाम् । श्वेतम् । तरुतारम् । दुवस्यथः । शर्यैः । अभि-द्युम् । पृतनासु । दुस्तरम् । चर्कृत्यम् । इन्द्रम्-इव । चर्षण् इ-सहम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0