भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.120

1.120.1

॥21॥.
-र्व्_1:8।22-
(र्व्_1,120)
का । राधत् । होत्रा । अश्विना । वाम् । कः । वाम् । जोषे । उभयोः । कथा । विधाति । अप्र-चेताः

1.120.2

विद्वांसौ । इत् । दुरः । पृच्छेत् । अविद्वान् । इत्था । अपरः । अचेताः । नु । चित् । नु । मर्ते । अक्रौ

1.120.3

ता । विद्वांसा । हवामहे । वाम् । ता । नः । विद्वांसा । मन्म । वोचेतम् । अद्य । प्र । आर्चत् । दयमानः । युवाकुः

1.120.4

वि । पृच्छामि । पाक्या । न । देवान् । वषट्-कृतस्य । अद्भुतस्य । दस्रा । पातम् । च । सह्यसः । युवम् । च । रभ्यसः । नः

1.120.5

प्र । या । घोषे । भृगवाणे । न । शोभे । यया । वाचा । यजति । पज्रियः । वाम् । प्र । इष-युः । न । विद्वान्

1.120.6

॥22॥.
-र्व्_1:8।23-
श्रुतम् । गायत्रम् । तकवानस्य । अहन् । चित् । हि । रिरेभ । अश्विना । वाम् । आ । अक्षी इति । शुभः । पती इति । दन्

1.120.7

युवम् । हि । आस्तम् । महः । रन् । युवम् । वा । यत् । निः-अततंसतम् । ता । नः । वसूइति । सु-गोपा । स्यातम् । पातम् । नः । वृकात् । अघ-योः

1.120.8

मा । कस्मै । धातम् । अभि । अमित्रिणे । नः । मा । अकुत्र । नः । गृहेभ्यः । धेनवः । गुः । स्तन-भुजः । अशिश्वीः

1.120.9

दुहीयन् । मित्र-धितये । युवाकु । राये । च । नः । मिमीतम् । वाज-वत्यै । इषे । च । नः । मिमीतम् । धेनु-मत्यै

1.120.10

अश्विनोः । असनम् । रथम् । अनश्वम् । वाजिनी-वतोः । तेन । अहम् । भूरि । चाकन

1.120.11

अयम् । समह । मा । तनु । ऊह्याते । जनान् । अनु । सोम-पेयम् । सु-खः । रथः

1.120.12

अध । स्वप्नस्य । निः । विदे । अभुञ्जतः । च । रेवतः । उभा । ता । बस्रि । नश्यतः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc