ऋग्वेदसंहिता, पदपाठ · अध्याय 1.118
॥17॥.
-र्व्_1:8।18-
(र्व्_1,118)
आ । वाम् । रथः । अश्विना । श्येन-पत्वा । सु-मृळीकः । स्व-वान् । यातु । अर्वाङ् । यः । मर्त्यस्य । मनसः । जवीयान् । त्रि-वन्धुरः । वृषणा । वात-रंहाः
त्रि-वन्धुरेण । त्रि-वृत । रथेन । त्रि-चक्रेण । सु-वृता । आ । यातम् । अर्वाक् । पिन्वतम् । गाः । जिन्वतम् । अर्वतः । नः । वर्धयतम् । अश्विना । वीरम् । अस्मे इति
प्रवत्-यामना । सु-वृता । रथेन । दस्रौ । इमम् । शृणुतम् । श्लोकम् । अद्रेः । किम् । अङ्ग । वाम् । प्रति । अवर्तिम् । गमिष्ठा । आहुः । विप्रासः । अश्विना । पुराजाः
आ । वाम् । श्येनासः । अश्विना । वहन्तु । रथे । युक्तासः । आशवः । पतङ्गाः । ये । अप्-तुरः । दिव्यासः । न । गृध्राः । अभि । प्रयः । नासत्या । वहन्ति
आ । वाम् । रथम् । युवतिः । तिष्ठत् । अत्र । जुष्टवी । नरा । दुहिता । सूर्यस्य । परि । वाम् । अश्वाः । वपुषः । पतङ्गाः । वयः । वहन्तु । अरुषाः । अभीके
॥18॥.
-र्व्_1:8।19-
उत् । वन्दनम् । ऐरतम् । दंसनाभिः । उत् । रेभम् । दस्रा । वृषणा । शचीभिः । निः । तौग्र्यम् । पारयथः । समुद्रात् । पुनरिति । च्यवानम् । चक्रथुः । युवानम्
युवम् । अत्रये । अव-नीताय । तप्तम् । ऊर्जम् । ओमानम् । अश्विनौ । अधत्तम् । युवम् । कण्वाय । अपि-रिप्ताय । चक्षुः । प्रति । अधत्तम् । सु-ष्टुतिम् । जुजुषाणा
युवम् । धेनुम् । शयवे । नाधिताय । अपिन्वतम् । अश्विना । पूर्व्याय । अमुञ्चतम् । वर्तिकाम् । अंहसः । निः । प्रति । जङ्घाम् । विश्पलायाः । अधत्तम्
युवम् । श्वेतम् । पेदवे । इन्द्र-जूतम् । अहि-हनम् । अश्विना । अदत्तम् । अश्वम् । जोहूत्रम् । अर्यः । अभि-भूतिम् । उग्रम् । सहस्र-साम् । वृषणम् । वीळु-अङ्गम्
ता । वाम् । नरा । सु । अवसे । सु-जाता । हवामहे । अश्विना । नाधमानाः । आ । नः । उप । वसु-मता । रथेन । गिरः । जुषाणा । सुविताय । यातम्
आ । श्येनस्य । जवसा । नूतनेन । अस्मे इति । यतम् । नासत्या । सजोषाः । हवे । हि । वाम् । अश्विना । रात-हव्यः । शश्वत्-तमायाः । उषसः । वि-उष्टौ
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0