ऋग्वेदसंहिता, पदपाठ · अध्याय 1.117
॥12॥.
-र्व्_1:8।13-
(र्व्_1,117)
मध्वः । सोमस्य । अश्विना । मदाय । प्रत्नः । होता । आ । विवासते । वाम् । बर्ह् इष्मती । रातिः । वि-श्रिता । गीः । इषा । यातम् । नासत्या । उप । वाजैः
यः । वाम् । अश्विना । मनसः । जवीयान् । रथः । सु-अश्वः । विशः । आजिगाति । येन । गच्छथः । सु-कृतः । दुरोणम् । तेन । नरा । वर्तिः । अस्मभ्यम् । यातम्
ऋषिम् । नरौ । अंहसः । पाञ्च-जन्यम् । ऋबीसात् । अत्रिम् । मुञ्चथः । गणेन । मिनन्ता । दस्योः । अशिवस्य । मायाः । अनु-पूर्वम् । वृषणा । चोदयन्ता
अश्वम् । न । गूळ्हम् । अश्विना । दुः-एवैः । ऋषिम् । नरा । वृषणा । रेभम् । अप्-सु । सम् । तम् । रिणीथः । वि-प्रुतम् । दंसः-भिः । न । वाम् । जूर्यन्ति । पूर्व्या । कृतानि
सुषुप्वांसम् । न । निः-ऋतेः । उप-स्थे । सूर्यम् । न । दस्रा । तमसि । क्षियन्तम् । शुभे । रुक्मम् । न । दर्शतम् । नि-खातम् । उत् । ऊपथुः । अश्विना । वन्दनाय
॥13॥.
-र्व्_1:8।14-
तत् । वाम् । नरा । शंस्यम् । पज्रियेण । कक्षीवता । नासत्या । परिज्मन् । शफात् । अश्वस्य । वाजिनः । जनाय । शतम् । कुम्भान् । असिञ्चतम् । मधूनाम्
युवम् । नरा । स्तुवते । कृष्णियाय । विष्णाप्वम् । ददथुः । विश्वकाय । घोषायै । चित् । पितृ-सदे । दुरोणे । पतिम् । जूर्यन्त्यै । अश्विनौ । अदत्तम्
युवम् । श्यावाय । रुशतीम् । अदत्तम् । महः । क्षोणस्य । अश्विना । कण्वाय । प्र-वाच्यम् । तत् । वृषणा । कृतम् । वाम् । यत् । नार्सदाय । श्रवः । अधि-अधत्तम्
पुरु । वर्पांसि । अश्विना । दधाना । नि । पेदवे । ऊहथुः । आशुम् । अश्वम् । सहस्र-साम् । वाजिनम् । अप्रति-इतम् । अहि-हनम् । श्रवस्यम् । तरुत्रम्
एतानि । वाम् । श्रवस्या । सुदानूइतिसु-दानू । ब्रह्म । आङ्गूषम् । सदनम् । रोदस्योः । यत् । वाम् । पज्रासः । अश्विना । हवन्ते । यतम् । इषा । च । विदुषे । च । वाजम्
॥14॥.
-र्व्_1:8।15-
सूनोः । मानेन । अश्विना । गृणाना । वाजम् । विप्राय । भुरणा । रदन्ता । अगस्त्ये । ब्रह्मणा । ववृधाना । सम् । विश्पलाम् । नासत्या । अर्ण्त्म्
कुह । यान्ता । सु-स्तुतिम् । काव्यस्य । दिवः । नपाता । वृषणा । शयु-त्रा । हिरण्यस्य-इव । कलशम् । नि-खातम् । उत् । ऊपथुः । दशमे । अश्विना । अहन्
युवम् । च्यवानम् । अश्विना । जरन्तम् । पुनः । युवानम् । चक्रथुः । शचीभिः । युवोः । रथम् । दुहिता । सूर्यस्य । सह । श्रिया । नासत्या । अवृणीत
युवम् । तुग्राय । पूर्व्येभिः । एवैः । पुनः-मन्यौ । अभवतम् । युवाना । युवम् भुज्युम् । अर्णसः । निः । समुद्रात् । वि-भिः । ऊहथुः । ऋज्रेभिः । अश्वैः
अजोहवीत् । अश्विना । तौग्र्यः । वाम् । प्र-ऊळ्हः । समुद्रम् । अव्यथिः । जगन्वान् । निः । तम् । ऊहथुः । सु-युजा । रथेन । मनः-जवसा । वृषणा । स्वस्ति
॥15॥.
-र्व्_1:8।16-
अजोहवीत् । अश्विना । वर्तिका । वाम् । आस्नः । यत् । सीम् । अमुञ्चतम् । वृकस्य । वि जयुषा । ययथुः । सानु । अद्रे । जातम् । विष्वाचः । अहतम् । विषेण
शतम् । मेषान् । वृक्ये । ममहानम् । तमः । प्र-णीतम् । अशिवेन । पित्रा । आ । अक्षी इति । ऋज्र-अश्वे । अश्विनौ । अधत्तम् । ज्योतिः । अन्धाय । चक्रथुः । वि-चक्षे
शुनम् । अन्धाय । भरम् । अह्वयत् । सा । वृकीः । अश्विना । वृषणा । नरा । इति । जारः । कनीनः-इव । चक्षदानः । ऋज्र-अश्वः । शतम् । एकम् । च । मेषान्
मही । वाम् । ऊतिः । अश्विना । मयः-भूः । उत । स्रामम् । धिष्ण्या । सम् । रिणीथः । अथ । युवाम् । इत् । अह्वयत् । पुरम्-धिः । आ । अगच्छतम् । सीम् । वृषणौ । अवः-भिः
अधेनुम् । दस्रा । स्तर्यम् । वि-सक्ताम् । अपिन्वतम् । शयवे । अश्विना । गाम् । युवम् । शचीभिः । वि-मदाय । जायाम् । नि । ऊहथुः । पुरु-मित्रस्य । योषाम्
॥16॥.
-र्व्_1:8।17-
यवम् । वृकेण । अश्विन । वपन्ता । इषम् । दुहन्ता । मनुषाय । दस्रा । अभि । दस्युम् । बकुरेण । धमन्ता । उरु । ज्योतिः । चक्रथुः । आर्याय
आथर्वणाय । अश्विना । दधीचे । अश्व्यम् । शिरः । प्रति । ऐरयतम् । सः । वाम् । मधु । प्र । वोचत् । ऋत-यन् । त्वाष्ट्रम् । यत् । दस्रौ । अपि-कक्ष्यम् । वाम्
सदा । कवी इति । सु-मतिम् । आ । चके । वाम् । विश्वाः । धियः । अश्विना । प्र । अवतम् । मे । अस्मे इति । रयिम् । नासत्या बृहन्तम् । अपत्य-साचम् । श्रुत्यम् । रराथाम्
हिरण्य-हस्तम् । चश्विना । रराणा । पुत्रम् । नरा । वध्रि-मत्याः । अदत्तम् । त्रिधा । ह । श्यावम् । अश्विना । वि-कस्तम् । उत् । जीवसे । ऐरयतम् । सुदानूइतिसु-दानू
एतानि । वाम् । अश्विना । वीर्याणि । प्र । पूर्व्याणि । आयवः । अवोचन् । ब्रह्म । कृण्वन्तः । वृषणा । युव-भ्याम् । सु-वीरासः । विदथम् । आ । वदेम
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0