ऋग्वेदसंहिता, पदपाठ · अध्याय 1.116
॥7॥.
-र्व्_1:8।8-
(र्व्_1,116)
नासत्याभ्याम् । बर्हिः-इव । प्र । वृञ्जे । स्तोमान् । इयर्मि । अभ्रियाइव । वातः । यौ । अर्भगाय । वि-मदाय । जायाम् । सेनाजुवा । नि-ऊहतुः । रथेन
वीळुपत्म-भिः । आशुहेम-भिः । वा । देवानाम् । वा । जूति-भिः । शाशदाना । तत् । रासभः । नासत्या । सहस्रम् । आजा । यमस्य । प्र-धने । जिगाय
तुग्रः । ह । भुज्युम् । अश्विना । उद-मेघे । रयिम् । न । कः । चित् । ममृ-वाम् । अव । अहाः । तम् । ऊहथुः । नौभिः । आत्मन्-वतीभिः । अन्तरिक्षप्रुत्-भिः । अप-उदकाभ् इः
तिस्रः । क्षपः । त्रिः । अहा । अतिव्रजत्-भिः । नासत्या । भुज्युम् । ऊहथुः । पतङ्गैः । समुद्रस्य । धन्वन् । आर्द्रस्य । पारे । त्रि-भिः । रथैः । शतपत्-भिः । षट्-अश्वैः
अनारम्भणे । तत् । अवीरयेथाम् । अनास्थाने । अग्रभणे । समुद्रे । यत् । अश्विना । ऊहथुः । भुज्युम् । अस्तम् । शत-अरित्रान् । नावम् । आतस्थिवांसम्
॥8॥.
-र्व्_1:8।9-
यम् । अश्विना । ददथुः । श्वेतम् । अश्वम् । अघ-अश्वाय । शश्वत् । इत् । स्वस्ति । तत् । वाम् । दात्रम् । महि । कीर्तेन्यम् । भूत् । पैद्वः । वाजी । सदम् । इत् । हव्यः । अर्यः
युवम् । नरा । स्तुवते । पज्रियाय । कक्षीवते । अरदतम् । पुरम्-धिम् । कारोतरात् । शफात् । अश्वस्य । वृष्णः । शतम् । कुम्भान् । असिञ्चतम् । सुरायाः
हिमेन । अग्निम् । घ्रंसम् । अवारयेथाम् । पितु-मतीम् । ऊर्जम् । अस्मै । अधत्तम् । ऋबीसे । अत्रिम् । अश्विना । अव-नीतम् । उत् । निन्यथुः । सर्व-गणम् । स्वस्ति
परा । अवतम् । नासत्या । अनुदेथाम् । उच्चाबुध्नम् । चक्रथुः । जिह्म-बारम् । क्षरन् । आपः । न । पायनाय । राये । सहस्राय । तृष्यते । गोतमस्य
जुजुरुषः । नासत्या । उत । वव्रिम् । प्र । अमुञ्चतम् । द्रापिम्-इव । च्यवानात् । प्र । अतिरतम् । जहितस्य । आयुः । दस्रा । आत् । इत् । पतिम् । अकृणुतम् । कनीनाम्
॥9॥.
-र्व्_1:8।10-
तत् । वाम् । नरा । शंस्यम् । राध्यम् । च । अभिष्टि-मत् । नासत्या । वरूथम् । यत् । व् इद्वांसा । निधिम्-इव । अप-गूळ्हम् । उत् । दर्शतात् । ऊपथुः । वन्दनाय
तत् । वाम् । नरा । सनये । दंसः । उग्रम् । आविः । कृणोमि । तन्यतुः । न । वृष्टिम् । दध्यङ् । ह । यत् । मधु । आथर्वणः । वाम् । अश्वस्य । सीर्ष्णा । प्र । यत् । ईम् । उवाच
अजोहवीत् । नासत्या । करा । वाम् । महे । यामन् । पुरु-भुजा । पुरम्-धिः । श्रुतम् । तत् । शासुः-इव । वध्रि-मत्याः । हिरण्य-हस्तम् । अश्विनौ । अदत्तम्
आस्नः । वृकस्य । वर्तिकाम् । अभीके । युवम् । नरा । नासत्या । अमुमुक्तम् । उतो इति । कविम् । पुरु-भुजा । युवम् । ह । कृपमाणम् । अकृणुतम् । वि-चक्षे
चरित्रम् । हि । वेः-इव । अच्छेदि । पर्णम् । आजा । खेलस्य । परि-तक्म्यायाम् । सद्यः । जङ्घाम् । आयसीम् । विश्पलायै । धने । हिते । सर्तवे । प्रति । अधत्तम्
॥10॥.
-र्व्_1:8।11-
शतम् । मेषान् । वृक्ये । चक्षदानम् । ऋज्र-अश्वम् । तम् । पिता । अन्धम् । चकार । तस्मै । अक्षी इति । नासत्या । वि-चक्षे । आ । अधत्तम् । दस्रा । भिषजौ । अनर्वन्
आ । वाम् । रथम् । दुहिता । सूर्यस्य । कार्ष्म-इव । अतिष्ठत् । अर्वता । जयन्ती । विश्वे । देवाः । अनु । अमन्यन्त । हृत्-भिः । सम् । ओं इति । श्रिया । नासत्या । सचेथेइति
यत् । अयातम् । दिवः-दासाय । वर्तिः । भरत्-वाजाय । अश्विना । हयन्ता । रेवत् । उवाह । सचनः । रथः । वाम् । वृषभः । च । शिंशुमारः । च । युक्ता
रयिम् । सु-क्षत्रम् । सु-अपत्यम् । आयुः । सु-वीर्यम् । नासत्या । वहन्ता । आ । जह्नावीम् । स-मनसा । उप । वाजैः । त्रिः । अह्नः । भागम् । दधतीम् । अयातम्
परि-विष्टम् । जाहुषम् । विश्वतः । सीम् । सु-गेभिः । नक्तम् । ऊहथुः । रजः-भिः । वि-भिन्दुना । नासत्या । रथेन । वि । पर्वतान् । अजरयू इति । अयातम्
॥11॥.
-र्व्_1:8।12-
एकस्याः । वस्तोः । आवतम् । रणाय । वशम् । अश्विना । सनये । सहस्रा । निः । अहतम् । दुच्छुनाः । इन्द्र-वन्ता । पृथु-श्रवसः । वृषणौ । अरातीः
शरस्य । चित् । आर्चत्-कस्य । अवतात् । आ । नीचात् । उच्चा । चक्रथुः । पातवे । वाः । शयवे । चित् । नासत्या । शचीभिः । जसुरये । स्तर्यम् । पिप्यथुः । गाम्
अवस्यते । स्तुवते । कृष्णियाय । ऋजु-यते । नासत्या । शचीभिः । पशुम् । न । नष्टम्-इव । दर्शनाय । विष्णाप्वम् । ददथुः । विश्वकाय
दश । रात्रीः । अशिवेन । नव । द्यून् । अव-नद्धम् । श्नथितम् अप्-सु । अन्तरिति । वि-प्रुतम् । रेभम् । उदनि । प्र-वृक्तम् । उत् । निन्यथुः । सोमम्-इव स्रुवेण
प्र । वाम् । दंसांसि । अस्विनौ । अवोचम् । अस्य । पतिः । स्याम् । सु-गवः । सु-वीरः । उत । पश्यन् । अश्नुवन् । दीर्घम् । आयुः । अस्तम्-इव । इत् । जरिमाणम् । जगम्याम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0