भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.115

1.115.1

॥6॥.
-र्व्_1:8।7-
(र्व्_1,115)
चित्रम् । देवानाम् । उत् । अगात् । अनीकम् । चक्षुः । मित्रस्य । वरुणस्य । अग्नेः । आ । अप्राः । द्यावापृथिवी इति । अन्तरिक्षम् । सूर्यः । आत्मा । जगतः । तस्थुषः । च

1.115.2

सूर्यः । देवीम् । उषसम् । रोचमानाम् । मर्यः । न । योषाम् । अभि । एति । पश्चात् । यत्र । नरः । देव-यन्तः । युगानि । वि-तन्वते । प्रति । भद्राय । भद्रम्

1.115.3

भद्राः । अश्वाः । हरितः । सूर्यस्य । चित्राः । एत-ग्वाः । अनु-माद्यासः । नमस्यन्तः । दिवः । आ । पृष्ठम् । अस्थुः । परि । द्यावापृथिवी । यन्ति । सद्यः

1.115.4

तत् । सूर्यस्य । देव-त्वम् । तत् । महि-त्वम् । मध्या । कर्तोः । वि-ततम् । सम् । जभार । यदा । इत् । अयुक्त । हरितः । सध-स्थाय् । आत् । रात्री । वासः । तनुते । सिमस्मै

1.115.5

तत् । मित्रस्य । वरुणस्य । अभि-चक्षे । सूर्यः । रूपम् । कृणुते । द्योः । उप-स्थे । अनन्तम् । अन्यत् । रुशत् । अस्य । पाजः । कृष्णम् । अन्यत् । हरितः । सम् । भरन्ति

1.115.6

अद्य । देवाः । उत्-इता । सूर्यस्य । निः । अंहसः । पिपृत । निः । अवद्यात् । तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc