भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.114

1.114.1

॥4॥.
-र्व्_1:8।5-
(र्व्_1,114)
इमाः । रुद्राय । तवसे । कपर्दिने । क्षयत्-वीराय । प्र । भरामहे । मतीः । यथा । शम् । असत् । द्वि-पदे । चतुः-पदे । विश्वम् । पुष्टम् । ग्रामे । अस्मिन् । अनातुरम्

1.114.2

मृळ । नः । रुद्र । उत । नः । मयः । कृधि । क्षयत्-वीराय । नमसा । विधेम । ते । यत् । शम् । च । योः । च । मनुः । आयेजे । पिता । तत् । अश्याम । तव । रुद्र । प्र-नीतिषु

1.114.3

अश्याम । ते । सु-मतिम् । देव-यज्यया । क्षयत्-वीरस्य । तव । रुद्र । मीढवः । सुम्न-यन् । इत् । विशः । अस्माकम् । आ । चर । अरिष्ट-वीराः । जुहवाम । ते । हविः

1.114.4

त्वेषम् । वयम् । रुद्रम् । यज्ञ-साधम् । वङ्कुम् । कविम् । अवसे । नि । ह्वयामहे । आरे । अस्मत् । दैव्यम् । हेळः । अस्यतु । सु-मतिम् । इत् । वयम् । अस्य । आ । वृणीमहे

1.114.5

दिवः । वराहम् । अरुषम् । कपर्दिनम् । त्वेषम् । रूपम् । नमसा । नि । ह्वयामहे । हस्ते । बिभ्रत् । भेषजा । वार्याणि । शर्म । वर्म । छर्दिः । अस्मभ्यम् । यंसत्

1.114.6

॥5॥.
-र्व्_1:8।6-
इदम् । पित्रे । मरुताम् । उच्यते । वचः । स्वादोः । स्वादीयः । रुद्राय । वर्धनम् । रास्व । च । नः । अमृत । मर्त-भोजनम् । त्मने । तोकाय । तनयाय । मृळ

1.114.7

मा । नः । महान्तम् । उत । मा । नः । अर्भकम् । मा । नः । उक्षन्तम् । उत । मा । नः । उक्षितम् । मा । नः । वधीः । पितरम् । मा । उत । मातरम् । मा । नः । प्रियाः । तन्वः । रुद्र । रिरिषः

1.114.8

मा । नः । तोके । तनये । मा । नः । आयौ । मा । नः । गोषु । मा । नः । अश्वेषु । रिरिषः । वीरान् । मा । नः । रुद्र । भामितः । वधीः । हविष्मन्तः । सदम् । इत् । त्वा । हवामहे

1.114.9

उप । ते । स्तोमान् । पशुपाः-इव । आ । अकरम् । रास्व । पितः । मरुताम् । सुम्नम् । अस्मे इति । भद्रा । हि । ते । सु-मतिः । मृळयत्-तमा । अथ । वयम् । अव । इत् । ते । वृणीमहे

1.114.10

आरे । ते । गो--घ्नम् । उत । पुरुष-घ्नम् । क्षयत्-वीर । सुम्नम् । अस्मे इति । ते । अस्तु । मृळ । च । नः । अधि । च । ब्रूहि । देव । अध । च । नः । शर्म । यच्छ । द्वि-बर्हाः

1.114.11

अवोचाम । नमः । अस्मै । अवस्यवः । शृणोतु । नः । हवम् । रुद्रः । मरुत्वान् । तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc