ऋग्वेदसंहिता, पदपाठ · अध्याय 1.111
॥31॥.
-र्व्_1:7।32-
(र्व्_1,111)
तक्षन् । रथम् । सु-वृतम् । विद्मनाअपसः । तक्षन् । हरी इति । इन्द्र-वाहा । वृषण्वसूइतिवृषण्-वसू । तक्षन् । पितृ-भ्याम् । ऋभवः । युवत् । वयः । तक्षन् । वत्साय । मातरम् । सचाभुवम्
आ । नः । यज्ञाय । तक्षत । ऋभु-मत् । वयः । ऋत्वे । दक्षाय । सु-प्रजावतीम् । इषम् । यथा । क्षयाम । सर्व-वीरया । विशा । तत् । नः । शर्धाय । धासथ । सु । इन्द्रियम्
आ । तक्षत । सातिम् । अस्मभ्यम् । ऋभवः । सातिम् । रथाय । सातिम् । अर्वते । नरः । साति म् । नः । जैत्रीम् । सम् । महेत । विश्व-हा । जामिम् । अजामिम् । पृतनासु । सक्षणिम्
ऋभुक्षणम् । इन्द्रम् । आ । हुवे । ऊतये । ऋभून् । वाजान् । मरुतः । सोम-पीतये । उभा । मित्रावरूणा । नूनम् । अश्विना । ते । नः । हिन्वन्तु । सातये । धिये । जिषे
ऋभुः । भराय । सम् । शिशातु । सातिम् । समर्य-जित् । वाजः । अस्मान् । अविष्टु । तत् । नः । मि त्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0