ऋग्वेदसंहिता, पदपाठ · अध्याय 1.110
॥29॥.
-र्व्_1:7।30-
(र्व्_1,110)
ततम् । मे । अपः । तत् । ओं इति । तायते । पुनरिति । स्वादिष्ठा । धीतिः । उचथाय । शस्यते । अयम् । समुद्रः । इह । व् इश्व-देव्यः । स्वाहाकृतस्य । सम् । ओं इति । तृप्णुत । ऋभवः
आभोगयम् । प्र । यत् । इच्छन्तः । ऐतन । अपाकाः । प्राञ्चः । मम । के । चित् । आपयः । सौधन्वनासः । चरितस्य । भूमना । अगच्छत । सवितुः । दाशुषः । गृहम्
तत् । सविता । वः । अमृत-त्वम् । आ । असुवत् । अगोह्यम् । यत् । श्रवयन्तः । ऐतन । त्यम् । चित् । चमसम् । असुरस्य । भक्षणम् । एकम् । सन्तम् । अकृणुत । चतुः-वयम्
विष्टवी । शमी । तरणि-त्वेन । वाघतः । मर्तासः । सन्तः । अमृत-त्वम् । आनशुः । सौधन्वनाः । ऋभवः । सूर-चक्षसः । संवत्सरे । सम् । अपृच्यन्त । धीति-भिः
क्षेत्रम्-इव । वि । ममुः । तेजनेनम् । एकम् । पात्रम् । ऋभवः । जेहमानम् । उप-स्तुताः । उप-मम् । नाधमानाः । अमर्त्येषु । श्रवः । इच्छमानाः
॥30॥.
-र्व्_1:7।31-
आ । मानीषाम् । अन्तरिक्षस्य । नृ-भ्यः । स्रुचाइव । घृतम् । जुहवाम । विद्मना । तरणि-त्वा । ये । पितुः । अस्य । सश्चिरे । ऋभवः । वाजम् । अरुहन् । दिवः । रजः
ऋभुः । नः । इन्द्रः । शवसा । नवीयान् । ऋभुः । वाजेभिः । वसु-भिः । वसुः । ददिः । युष्माकम् । देवाः । अवसा । अहनि । प्रिये । अभि । तिष्ठेम । पृत्सुतीः । असुन्वताम्
निः । चर्मणः । ऋभवः । गाम् । अपिंशत । सम् । वत्सेन । असृजत । मातरम् । पुनर् इति । सौधन्वनासः । सु-अपस्यया । नरः । जिव्री
इति । युवाना । पितरा । अकृणोतन
वाजेभिः । नः । वाज-सातौ । अविड्ढि । ऋभुमान् । इन्द्र । चित्रम् । आ । दर्षि । राधः । तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0