भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.112

1.112.1

॥32॥.
-र्व्_1:7।33-
(र्व्_1,112)
ईळे । द्यावापृथिवी इति । पूर्व-चित्तये । अग्निम् । घर्मम् । सु-रुचम् । यामन् । इष्टये । याभिः । भरे । कारम् । अंशाय । जिन्वथः । ताभिः । ओं इति । सु । ऊति-भिः । अश्विना । आ । गतम्

1.112.2

युवोः । दानाय । सु-भराः । असश्चतः । रथम् । आ । तस्थुः । वचसम् । न । मन्तवे । याभिः । धियः । अवथः । कर्मन् । इष्टये । ताभिः । ओं इति । सु । ऊति-भिः । अश्विना । आ । गतम्

1.112.3

युवम् । तासाम् । दिव्यस्य । प्र-शासने । विशाम् । क्षयथः । अमृतस्य । मज्मना । याभ् इः । धेनुम् । अस्वम् । पिन्वथः । नरा । ताभिः । ओं इति । सु । ऊति-भिः । अश्विना । आ । गतम्

1.112.4

याभिः । परि-ज्मा । तनयस्य । मज्मना । द्विइमाता । तूर्षु । तरणिः । वि-भूषति । याभिः । त्रि-मन्तुः । अभवत् । वि-चक्षणः । ताभिः । ओं इति । सु । ऊति-भिः । अश्विना । आ । गतम्

1.112.5

याभिः । रेभम् । नि-वृतम् । सितम् । अत्-भ्यः । उत् । वन्दनम् । ऐरयतम् । स्वः । दृशे । याभिः । कण्वम् । प्र । सिसासन्तम् । आवतम् । ताभिः । ओं इति । सु । ऊति-भिः । अश्विना । आ । गतम्

1.112.6

॥33॥.
-र्व्_1:7।34-
याभिः । अन्तकम् । जसमानम् । आअरणे । भुज्युम् । याभिः । अव्यथि-भिः । जिजिन्वथुः । याभ् इः । कर्कन्धुम् । वय्यम् । च । जिन्वथः । ताभिः । ओं इति । सु । ऊति-भिः । अश्विना । आ । गतम्

1.112.7

याभिः । शुचन्ति । धनसाम् । सु-संसदम् । तप्तम् । घर्मम् । ओम्यावन्तम् । अत्रये । याभिः । पृष्नि-गुम् । पुरु-कुत्सम् । आवतम् । ताभिः । ओं इति । सु । ऊति-भिः । अश्विना । आ । गतम्

1.112.8

याभिः । शचीभिः । वृषणा । परावृजम् । प्र । अन्धम् । श्रोणम् । चक्षसे । एतवे । कृथः । याभिः । वर्तिकाम् । ग्रसिताम् । अमुञ्चतम् । ताभिः । ओं इति । सु । ऊति-भिः । अश्विना । आ । गतम्

1.112.9

याभिः । सिन्धुम् । मधु-मन्तम् । असश्चतम् । वसिष्ठम् । याभिः । अजरौ । अजिन्वतम् । याभिः । कुत्सम् । श्रुतर्यम् । नर्यम् । आवतम् । ताभिः । ओं इति । सु । ऊति-भिः । अश्विना । आ । गतम्

1.112.10

याभिः । विश्पलाम् । धन-साम् । अथर्व्यम् । सहस्र-मीळ्हे । आजौ । अजिन्वतम् । याभिः । वशम् । अश्व्यम् । प्रेणिम् । आवतम् । ताभिः । ओं इति । सु । ऊति-भिः । अश्विना । आ । गतम्

1.112.11

॥34॥.
-र्व्_1:7।35-
याभिः । सुदानूइतिसु-दानू । औशिजाय । वणिजे । दीर्घ-श्रवसे । मधु । कोशः । अक्षरत् । कक्षी-वन्तम् । स्तोतारम् । याभिः । आवतम् । ताभिः । ओं इति । सु । ऊति-भिः । अश्विना । आ । गतम्

1.112.12

याभिः । रसाम् । क्षोदसा । उद्गः । पिपिन्वथुः । अनश्वम् । याभिः । रथम् । आवतम् । जिषे । याभिः । त्रि-शोकः । उस्रियाः । उत्-आजत । ताभिः । ओं इति । सु । ऊति-भिः । अश्विना । आ । गतम्

1.112.13

याभिः । सूर्यम् । परि-याथः । परावति । मन्धातारम् । क्षैत्र-पत्येषु । आवतम् । याभिः । विप्रम् । प्र । भरत्-वाजम् । आवतम् । ताभिः । ओं इति । सु । ऊति-भिः । अश्विना । आ । गतम्

1.112.14

याभिः । महाम् । अतिथि-ग्वम् । कशः-जुवम् । दिवः-दासम् । शम्बर-हत्ये । आवतम् । याभिः । पूः-भिद्ये । त्रसदस्युम् । आवतम् । ताभिः । ओं इति । सु । ऊति-भिः । अश्विना । आ । गतम्

1.112.15

याभिः । वम्रम् । वि-पिपानम् । उप-स्तुतम् । कलिम् । याभिः । वित्त-जानिम् । दुवस्यथः । याभिः । वि-अश्वम् । उत । पृथिम् । आवतम् । ताभिः । ओं इति । सु । ऊति-भिः । अश्विना । आ । गतम्

1.112.16

॥35॥.
-र्व्_1:7।36-
याभिः । नरा । शयवे । याभिः । अत्रये । याभिः । पुरा । मनवे । गातुम् । ईषथुः । याभिः । शारीः । आजतम् । स्यूम-रश्मये । ताभिः । ओं इति । सु । ऊति-भिः । अश्विना । आ । गतम्

1.112.17

याभिः । पठर्वा । जठरस्य । मज्मना । अग्निः । न । अदीदेत् । चितः । इद्धः । अज्मन् । आ । याभिः । शर्यातम् । अवथः । महाधने । ताभिः । ओं इति । सु । ऊति-भिः । अश्विना । आ । गतम्

1.112.18

याभिः । अङ्गिरः । मनसा । नि-रण्यथः । अग्रम् । गच्छथः । वि-वरे । गो--अर्णसः । याभिः । मनुम् । शूरम् । इषा । सम्-आवतम् । ताभिः । ओं
इति । सु । ऊति-भिः । अश्विना । आ । गतम्

1.112.19

याभिः । पत्नीः । वि-मदाय । नि-ऊहथुः । आ । घ । वा । याभिः । अरुणीः । अशिक्षतम् । याभिः । सु-दासे । ऊहथुः । सु-देव्यम् । ताभिः । ओं इति । सु । ऊति-भिः । अश्विना । आ । गतम्

1.112.20

याभिः । शन्ताती इतिशम्-ताती । भवथः । ददाशुषे । भुज्युम् । याभिः । अवथः । याभिः । अध्रि-गुम् । ओम्यावतीम् । सु-भराम् । ऋत-स्तुभम् । ताभिः । ओं इति । सु । ऊति-भिः । अश्विना । आ । गतम्

1.112.21

॥36॥.
-र्व्_1:7।37-
याभिः । कृशानुम् । असने । दुवस्यथः । जवे । याभिः । यूनः । अर्वन्तम् । आवतम् । मधु । प्रियम् । भरथः । यत् । सरट्-भ्यः । ताभिः । ओं इति । सु । ऊति-भिः । अश्विना । आ । गतम्

1.112.22

याभिः । नरम् । गोषु-युधम् । नृ-सह्ये । क्षेत्रस्य । साता । तनयस्य । जिन्वथः । याभिः । रथान् । अवथः । याभिः । अर्वतः । ताभिः । ओं इति । सु । ऊति-भिः । अश्विना । आ । गतम्

1.112.23

याभिः । कुत्सम् । आर्जुनेयम् । शतक्रतूइतिशत-क्रतू । प्र । तुर्वीतिम् । प्र । च । दभीतिम् । आवतम् । याभिः । ध्वसन्तिम् । पुरु-सन्तिम् । आवतम् । ताभिः । ओं इति । सु । ऊति-भिः । अश्विना । आ । गतम्

1.112.24

अप्नस्वतीम् । अश्विना । वाचम् । अस्मे इति । कृतम् । नः । दस्रा । वृषणा । मनीषाम् । अद्यूत्ये । अवसे । नि । ह्वये । वाम् । वृधे । च । नः । भवतम् । वाज-सातौ

1.112.25

द्यु-भिः । अक्तु-भिः । परि । पातम् । अस्मान् । अरिष्टेभिः । अश्विना । सौभगेभिः । तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc