भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.109

1.109.1

॥27॥.
-र्व्_1:7।28-
(र्व्_1,109)
वि । हि । अख्यम् । मनसा । वस्यः । इच्छन् । इन्द्राग्नी इति । ज्ञासः । उत । वा । स-जातान् । न । अन्या । युवत् । प्र-मतिः । अस्ति । मह्यम् । सः । वाम् । धियम् । वाज-यन्तीम् । अतक्षम्

1.109.2

अश्रवम् । हि । भूरिदावत्-तरा । वाम् । वि-जामातुः । उत । वा । घ । स्यालात् । अथ । सोमस्य । प्र-यती । युव-भ्याम् । इन्द्राग्नी इति । स्तोमम् । जनयामि । नव्यम्

1.109.3

मा । छेद्म । रश्मीन् । इति । नाधमानाः । पितॄणाम् । शक्तीः । अनु-यच्छमानाः । इन्द्राग्नि-भ्याम् । कम् । वृषणः । मदन्ति । ता । हि । अद्री इति । धिषणायाः । उप-स्थे

1.109.4

युवाभ्याम् । देवी । धिषणा । मदाय । इन्द्राग्नी इति । सोमम् । उशती । सुनोति । तौ । अश्विना । भद्र-हस्ता । सुपाणी इतिसु-पाणी । आ । धावतम् । मधुना । पृङ्क्तम् । अप्-सु

1.109.5

युवाम् । इन्द्राग्नी इति । वसुनः । वि-भागे । तवः-तमा । शुश्रव । वृत्र-हत्ये । तौ । आसद्य । बर्हिषि । यज्ञे । अस्मिन् । प्र । चर्षणी इति । मादयेथाम् । सुतस्य

1.109.6

॥28॥.
-र्व्_1:7।29-
प्र । चर्षणि-भ्यः । पृतनाहवेषु । प्र । पृथिव्याः । रिरिचाथेइति । दिवः । च । प्र । सिन्धु-भ्यः । प्र । गिरि-भ्यः । महि-त्वा । प्र । इन्द्राग्नी इति । विश्वा । भुवना अति । अन्या

1.109.7

आ । भरतम् । शिक्षतम् । वज्रबाहू इतिवज्र-बाहू । अस्मान् । इन्द्राग्नी । अवतम् । शचीभिः । इमे । नु । ते । रश्मयः । सूर्यस्य । येभिः । स-पित्वम् । पितरः । नः । आसन्

1.109.8

पुरम्-दरा । शिक्षतम् । वज्र-हस्ता । अस्मान् । इन्द्राग्नी इति । अवतम् । भरेषु । तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथ् इवी । उत । द्यौः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc