ऋग्वेदसंहिता, पदपाठ · अध्याय 1.10
॥18॥.
-र्व्_1:1।19-
(र्व्_1,10)
गायन्ति । त्वा । गायत्रिणः । अर्चन्ति । अर्कम् । अर्किणः । ब्रह्माणः । त्वा । शतक्रतो इतिशत-क्रतो । उत् । वंशम्-इव । येमिरे
यत् । सानोः । सानुम् । आ । अरुहत् । भूरि । अस्पष्ट । कर्त्वम् । तत् । इन्द्रः । अर्थम् । चेतति । यूथेन । वृष्णिः । एजति
युक्ष्व । हि । केशिना । हरी इति । वृषणा । कक्ष्य-प्रा । अथ । नः । इन्द्र । सोम-पाः । गिराम् । उप-श्रुतिम् । चर
आ । इहि । स्तोमान् । अभि । स्वर । अभि । गृणीहि । आ । रुव । ब्रह्म । च । नः । वसो इति । सचा । इन्द्र । यज्ञम् । च । वर्धय
उक्थम् । इन्द्राय । शंस्यम् । वर्धनम् । पुरुनिः-सिधे । शक्रः । यथा । सुतेषु । नः । ररणत् । सख्येषु । च
तम् । इत् । सखि-त्वे । ईमहे । तम् । राये । तम् । सु-वीर्ये । सः । शक्रः । उत । नः । शकत् । इन्द्रः । वसु । दयमानः
॥19॥.
-र्व्_1:1।20-
सु-विवृतम् । सुनिः-अजम् । इन्द्र । त्वादातम् । इत् । यशः । गवाम् । अप । व्रजम् । वृधि । कृणुष्व । राधः । अद्रि-वः
नहि । त्वा । रोदसी इति । उभे इति । ऋघायमाणम् । इन्वतः । जेषः । स्वः-वतीः । अपः । सम् । गाः । अस्मभ्यम् । धूनुहि
आश्रुत्-कर्ण । श्रुधि । हवम् । नू । चित् । दधिष्व । मे । गिरः । इन्द्र । स्तोमम् । इमम् । मम । कृष्व । युजः । चित् । अन्तरम्
विद्म । हि । त्वा । वृषन्-तमम् । वाजेषु । हवन-श्रुतम् । वृषन्-तमस्य । हूमहे । ऊतिम् । सहस्र-सातमाम्
आ । तु । नः । इन्द्र । कौशिक । मन्दसानः । सुतम् । पिब । नव्यम् । आयुः । प्र । सु । तिर । कृधि । सहस्र-साम् । ऋषिम्
परि । त्वा । गिर्वणः । गिरः । इमाः । भवन्तु । विश्वतः । वृद्ध-आयुम् । अनु । वृद्धयः । जुष्टाः । भवन्तु । जुष्टयः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0