ऋग्वेदसंहिता, पदपाठ · अध्याय 1.108
॥25॥.
-र्व्_1:7।26-
(र्व्_1,108)
यः । इन्द्राग्नी इति । चित्र-तमः । रथः । वाम् । अभि । विश्वानि । भुवनानि । चष्टे । तेन । आ । यातम् । स-रथम् । तस्थिवांसा । अथ । सोमस्य । पिबतम् । सुतस्य
यावत् । इदम् । भुवनम् । विश्वम् । अस्ति । उरु-व्यचा । वरिमता । गभीरम् । तावान् । अयम् । पातवे । सोमः । अस्तु । अरम् । इन्द्राग्नी इति । मनसे । युव-भ्याम्
चक्राथे । हि । सध्र्यक् । नाम । भद्रम् । सध्रीचीना । वृत्र-हणौ । उत । स्थः । तौ । इन्द्राग्नी इति । सध्र्यञ्चा । नि-सद्य । वृष्णः । सोमस्य । वृषणा । आ । वृषेथाम्
सम्-इद्धेषु । अग्निषु । आनजाना । यत-स्रुचा । बर्हिः । ओं इति । तिस्तिराणा । तीव्रैः । सोमैः । परि-सिक्तेभिः । अर्वाक् । आ । इन्द्राग्नी इति । सौमनसाय । यातम्
यानि । इन्द्राग्नी इति । चक्रथुः । वीर्याणि । यानि । रूपाणि । उत । वृष्ण्यानि । या । वाम् । प्रत्नानि । सख्या । शिवानि । तेभिः । सोमस्य । पिबतम् । सुतस्य
॥26॥.
-र्व्_1:7।27-
यत् । अब्रवम् । प्रथमम् । वाम् । वृणानः । अयम् । सोमः । असुरैः । नः । वि-हव्यः । ताम् । सत्याम् । श्रद्धाम् । अभि । आ । हि । यातम् । अथ । सोमस्य । पिबतम् । सुतस्य
यत् । इन्द्राग्नी इति । मदथः । स्वे । दुरोणे । यत् । ब्रह्मणि । राजनि । वा । यजत्रा । अतः । परि । वृषणौ । आ । हि । यातम् । अथ । सोमस्य । पिबतम् । सुतस्य
यत् । इन्द्राग्नी इति । यदुषु । तुर्वशेषु । यत् । द्रुह्युषु । अनुषु । पूरुषु । स्थः । अतः । परि । वृषणौ । आ । ह् इ । यातम् । अथ । सोमस्य । पिबतम् । सुतस्य
यत् । इन्द्राग्नी इति । अवमस्याम् । पृथिव्याम् । मध्यमस्याम् । परमस्याम् । उत । स्थः । अतः । परि । वृषणौ । आ । हि । यातम् । अथ । सोमस्य । पिबतम् । सुतस्य
यत् । इन्द्राग्नी इति । परमस्याम् । पृथिव्याम् । मध्यमस्याम् । अवमस्याम् । उत । स्थः । अतः । परि । वृषणौ । आ । हि । यातम् । अथ । सोमस्य । पिबतम् । सुतस्य
यत् । इन्द्राग्नी इति । दिवि । स्थः । यत् । पृथिव्याम् । यत् । पर्वतेषु । ओषधीषु । अप्-सु । अतः । परि । वृषणौ । आ । हि । यातम् । अथ । सोमस्य । पिबतम् । सुतस्य
यत् । इन्द्राग्नी इति । उत्-इता । सूर्यस्य । मध्ये । दिवः । स्वधया । मादयेथेइति । अतः । परि । वृषणौ । आ । हि । यातम् । अथ । सोमस्य । पिबतम् । सुतस्य
एव । इन्द्राग्नी इति । पपि-वांसा । सुतस्य । विश्वा । अस्मभ्यम् । सम् । जयतम् । धनानि । तत् । नः । मि त्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0