भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.104

1.104.1

॥17॥.
-र्व्_1:7।18-
(र्व्_1,104)
योनिः । ते । इन्द्र । नि-सदे । अकारि । तम् । आ । नि । सीद । स्वानः । न । अर्वा । वि-मुच्य । वयः । अव-साय । अश्वान् । दोषा । वस्तोः । वहीयसः । प्र-पित्वे

1.104.2

ओ इति । त्ये । नरः । इन्द्रम् । ऊतये । गुः । नु । चित् । तान् । सद्यः । अध्वनः । जगम्यात् । देवासः । मन्युम् । दासस्य । श्चम्नन् । ते । नः । आ । वक्षन् । सु-विताय । वर्णम्

1.104.3

अव । त्मना । भरते । केत-वेदाः । अव । त्मना । भरते । फेनम् । उदन् । क्षीरेण । स्नातः । कुयवस्य । योषेइति । हते इति । ते इति । स्याताम् । प्रवणे । शिफायाः

1.104.4

युयोप । नाभिः । उपरस्य । आयोः । प्र । पूर्वाभिः । तिरते । राष्टि । शूरः । अञ्जसी । कुलिशी । वीर-पत्नी । पयः । हिन्वानाः । उद-भिः । भरन्ते

1.104.5

प्रति । यत् । स्या । नीथा । अदर्शि । दस्योः । ओकः । न । अच्छ । सदनम् । जानती । गात् । अध । स्म । नः । मघ-वन् । चर्कृतात् । इत् । मा । नः । मघाइव । निष्षपी । परा । दाः

1.104.6

॥18॥.
-र्व्_1:7।19-
सः । त्वम् । नः । इन्द्र । सूर्ये । सः । अप्-सु । अनागाः-त्वे । आ । भज । जीव-शंसे । मा । अन्तराम् । भुजम् । आ । रिरिषः । नः । श्रद्धितम् । ते । महते । इन्द्रियाय

1.104.7

अध । मन्ये । श्रत् । ते । अस्मै । अधायि । वृषा । चोदस्व । महते । धनाय । मा । नः । अकृते । पुरु-हूत । योनौ । इन्द्र । क्षुध्यत्-भ्यः । वयः । आसुतिम् । दाः

1.104.8

मा । नः । वधीः । इन्द्र । मा । परा । दाः । मा । नः । प्रिया । भोजनानि । प्र । मोषीः । आण्डा । मा । नः । मघ-वन् । शक्र । निः । भेत् । मा । नः । पात्रा । भेत् । सह-जानुषाणि

1.104.9

अर्वाङ् । आ । इहि । सोम-कामम् । त्वा । आहुः । अयम् । सुतः । तस्य । पिब । मदाय । उरु-व्यचाः । जठरे । आ । वृषस्व । पिताइव । नः । शृणुहि । हूयमानः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc