भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.105

1.105.1

॥19॥.
-र्व्_1:7।20-
(र्व्_1,105)
चन्द्रमाः । अप्-सु । अन्तः । आ । सु-पर्णः । धावते । दिवि । न । वः । हिरण्य-नेमयः । पदम् । विन्दन्ति । वि-द्युतः । वित्तम् । मे । अस्य । रोदसी इति

1.105.2

अर्थम् । इत् । वै । ओं इति । अर्थिनः । आ । जाया । युवते । पतिम् । तुञ्जातेइति । वृष्ण्यम् । पयः । परि-दाय । रसम् । दुहे । वित्तम् । मे । अस्य । रोदसी इति

1.105.3

मो इति । सु । देवाः । अदः । स्वः । अव । पादि । दिवः । परि । मा । सोम्यस्य । शम्-भुवः । शूने । भूम । कदा । चन । वित्तम् । मे । अस्य । रोदसी इति

1.105.4

यज्ञम् । पृच्छामि । अवमम् । सः । तत् । दूतः । वि । वोचति । क्व । ऋतम् । पूर्व्यम् । गतम् । कः । तत् । बिभर्ति । नूतनः । वित्तम् । मे । अस्य । रोदसी इति

1.105.5

अमी इति । ये । देवः । स्थन । त्रिषु । आ । रोचने । दिवः । कत् । वः । ऋतम् । कत् । अनृतम् । क्व । प्रत्ना । वः । आहुतिः । वित्तम् । मे । अस्य । रोदसी इति

1.105.6

॥20॥.
-र्व्_1:7।21-
कत् । वः । ऋतस्य । धर्णसि । कत् । वरुणस्य । चक्षणम् । कत् । अर्यम्णः । महः । पथा । अति । क्रामेम । दुः-ढ्यः । वित्तम् । मे । अस्य । रोदसी इति

1.105.7

अहम् । सः । अस्मि । यः । पुरा । सुते । वदामि । कानि । चित् । तम् । मा । व्यन्ति । आध्यः । वृकः । न । तृष्ण-जम् । मृगम् । वित्तम् । मे । अस्य । रोदसी
इति

1.105.8

सम् । मा । तपन्ति । अभितः सपत्नीः-इव । पर्शवः । मूषः । न । शिश्ना । वि । अदन्ति । मा । आध्यः । स्तोतारम् । ते । शत-क्रतो इतिशत-क्रतो । वित्तम् । मे । अस्य । रोदसी
इति

1.105.9

अमी इति । ये । सप्त । रश्मयः । तत्र । मे । नाभिः । आतता । त्रितः । तत् । वेद । आप्त्यः । सः । जामि-त्वाय । रेभति । वित्तम् । मे । अस्य । रोदसी इति

1.105.10

अमी इति । ये । पञ्च । उक्षणः । मध्ये । तस्थुः । महः । दिवः । देव-त्रा । नु । प्र-वाच्यम् । सध्रीचीनाः । नि । ववृतुः । वित्तम् । मे । अस्य । रोदसी इति

1.105.11

॥21॥.
-र्व्_1:7।22-
सु-पर्णाः । एते । आसते । मध्ये । आरोधने । दिवः । ते । सेधन्ति । पथः । वृकम् । तरन्तम् । यह्वतीः । अपः । वित्तम् । मे । अस्य । रोदसी इति

1.105.12

नव्यम् । तत् । उक्थ्यम् । हितम् । देवासः । सु-प्रवाचनम् । ऋतम् । अर्षन्तिसिन्धवः । सत्यम् । ततान । सूर्यः । वित्तम् । मे । अस्य । रोदसी इति

1.105.13

अग्ने । तव । त्यत् । उक्थ्यम् । देवेषु । अस्ति । आप्यम् । सः । नः । सत्तः । मनुष्वत् । आ । देवान् । यक्षि । विदुः-तरः । वित्तम् । मे । अस्य । रोदसी इति

1.105.14

सत्तः । होता । मनुष्वत् । आ । देवान् । अच्छ । विदुः-तरः । अग्निः । हव्या । सुसूदति । देवः । देवेषु । मेधिरः । वित्तम् । मे । अस्य । रोदसी इति

1.105.15

ब्रह्मा । कृणोति । वरुणः । गातु-विदम् । तम् । ईमहे । वि । ऊर्णोति । हृदा । मतिम् । नव्यः । जायताम् । ऋतम् । वित्तम् । मे । अस्य । रोदसी इति

1.105.16

॥22॥.
-र्व्_1:7।23-
असौ । यः । पन्थाः । आदित्यः । दिवि । प्र-वाच्यम् । कृतः । न । सः । देवाः । अति-क्रमे । तम् । मर्तासः । न । पश्यथ । वित्तम् । मे । अस्य । रोदसी इति

1.105.17

त्रितः । कूपे । अव-हितः । देवान् । हवते । ऊतये । तत् । शुश्राव । बृहस्पतिः । कृण्वन् । अंहूरणात् । उरु । वित्तम् । मे । अस्य । रोदसी इति

1.105.18

अरुणः । मा । सकृत् । वृकः । पथा । यन्तम् । ददर्श । हि । उत् । जिहीते । नि-चाय्य । तष्टाइव । पृष्टि-आमयी । वित्तम् । मे । अस्य । रोदसी इति

1.105.19

एना । आङ्गूषेण । वयम् । इन्द्र-वन्तः । अभि । स्याम । वृजने । सर्व-वीराः । तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc