ऋग्वेदसंहिता, पदपाठ · अध्याय 1.103
॥15॥.
-र्व्_1:7।16-
(र्व्_1,103)
तत् । ते । इन्द्रियम् । परमम् । पराचैः । अधारयन्त । कवयः । पुरा । इदम् । क्षमा । इदम् । अन्यत् । दिवि । अन्यत् । अस्य । सम् । ईम् इति । पृच्यते । समनाइव । केतुः
सः । धारयत् । पृथिवीम् । पप्रथत् । च । वज्रेण । हत्वा । निः । अपः । ससर्ज । अहन् । अहिम् । अभिनत् । रौहिणम् । वि । अहन् । वि-अंसम् । मघ-वा । शचीभिः
सः । जातू-भर्मा । श्रत्-दधानः । ओजः । पुरः । वि-भिन्दन् । अचरत् । वि । दासीः । वि द्वान् । वज्रिन् । दस्यवे । हेतिम् । अस्य । आर्यम् । सहः । वर्धय । द्युम्नम् । इन्द्र
तत् । ऊचुषे । मानुषा । इमा । युगानि । कीर्तेन्यम् । मघ-वा । नाम । बिभ्रत् । उप-प्रयन् । दस्यु-हत्याय । वज्री । यत् । ह । सूनुः । श्रवसे । नाम । दधे
तत् । अस्य । इदम् । पश्यत । भूरि । पुष्टम् । श्रत् । इन्द्रस्य । धत्तन । वीर्याय । सः । गाः । अविन्दत् । सः । अविन्दत् । अश्वान् । सः । ओषधीः । सः । अपः । सः । वनानि
॥16॥.
-र्व्_1:7।17-
भूरि-कर्मणे । वृषभाय । वृश्णे । सत्य-शुष्माय । सुनवाम । सोमम् । यः । आदृत्य । परि-पन्थी-इव । शूरः । अयज्वनः । वि-भजन् । एति । वेदः
तत् । इन्द्र । प्र । अव । वीर्यम् । चकर्थ । यत् । ससन्तम् । वज्रेण । अबोधयः । अह् इम् । अनु । त्वा । पत्नीः । हृषितम् । वयः । च । विश्वे । देवासः । अमदन् । अनु । त्वा
शुष्णम् । पिप्रुम् । कुयवम् । वृत्रम् । इन्द्र । यदा । अवधीः । वि । पुरः । शम्बरस्य । तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0