भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.102

1.102.1

॥13॥.
-र्व्_1:7।14-
(र्व्_1,102)
इमाम् । ते । धियम् । प्र । भरे । महः । महीम् । अस्य । स्तोत्रे । धिषणा । यत् । ते । आनजे । तम् । उत्-सवे । च । प्र-सवे । च । ससहिम् । इन्द्रम् । देवासः । शवसा । अमदन् । अनु

1.102.2

अस्य । श्रवः । नद्यः । सप्त । बिभ्रति । द्यावाक्षामा । पृथिवी । दर्शतम् । वपुः । अस्मे इति । सूर्याचन्द्रमसा । अभि-चक्षे । श्रद्धे । कम् । इन्द्र । चरतः । वि-तर्तुरम्

1.102.3

तम् । स्म । रथम् । मघ-वन् । प्र । अव । सातये । जैत्रम् । यम् । ते । अनु-मदाम । सम्-गमे । आजा । नः । इन्द्र । मनसा । पुरु-स्तुत । त्वायत्-भ्यः । मघ-वन् । शमर् । यच्छ । नः

1.102.4

वयम् । जयेम । त्वया । युजा । वृतम् । अस्माकम् । अंशम् । उत् । अव । भरे--भरे । अस्मभ्यम् । इन्द्र । वरिवः । सु-गम् । कृधि । प्र । शत्रूणाम् । मघ-वन् । वृष्ण्या । रुज

1.102.5

नाना । हि । त्वा । हवमानाः । जनाः । इमे । धनानाम् । धर्तः । अवसा । विपन्यवः । अस्माकम् । स्म । रथम् । आ । तिष्ठ । सातये । जैत्रम् । हि । इन्द्र । नि-भृतम् । मनः । तव

1.102.6

॥14॥.
-र्व्_1:7।15-
गो--जिता । बाहू इति । अमित-क्रतुः । सिमः । कर्मन्-कर्मन् । शत-मूर्तिः । खजम्-करः । अकल्पः । इन्द्रः । प्रति-मानम् । ओजसा । अथ । जनाः । वि । ह्वयन्ते । सिसासवः

1.102.7

उत् । ते । शतात् । मघ-वन् । उत् । चभूयसः । उत् । सहस्रात् । रिरिचे । कृष्टिषु । श्रवः । अमात्रम् । त्वा । धिषणा । तित्विषे । मही । अध । वृत्राणि । जिघ्नसे । पुरम्-दर

1.102.8

त्रिविष्टि-धातु । प्रति-मानम् । ओजसः । तिस्रः । भूमीः । नृ-पते । त्रीणि । रोचना । अत् इ । इदम् । विश्वम् । भुवनम् । ववक्षिथ । अशत्रुः । इन्द्र । जनुषा । सनात् । असि

1.102.9

त्वाम् । देवेषु । प्रथमम् । हवामहे । त्वम् । बभूथ । पृतनासु । ससहिः । सः । इमम् । नः । कारुम् । उप-मन्युम् । उत्-भिदम् । इन्द्रः । कृणोतु । प्र-सवे । रथम् । पुरः

1.102.10

त्वम् । जिगेथ । न । धना । रुरोधिथ । अर्भेषु । आजा । मघ-वन् । महत्-सु । च । त्वाम् । उग्रम् । अवसे । सम् । शिशीमसि । अथ । नः । इन्द्र । हवनेषु । चोदय

1.102.11

विश्वाहा । इन्द्रः । अधि-वक्ता । नः । अस्तु । अपरि-ह्वृताः । सनुयाम । वाजम् । तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc