भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.101

1.101.1

॥11॥.
-र्व्_1:7।12-
(र्व्_1,101)
प्र । मन्दिने । पितु-मत् । अर्चत । वचः । यः । कृष्ण-गर्भाः । निः-अहन् । ऋजिश्वना । अवस्यवः । वृषणम् । वज्र-दक्षिणम् । मरुत्वन्तम् । सख्याय । हवामहे

1.101.2

यः । वि-अंसम् । जहृषाणेन । मन्युना । यः । शम्बरम् । यः । अहन् । पिप्रुम् । अव्रतम् । इन्द्रः । यः । शुष्णम् । अशुषम् । नि । अवृणक् । मरुत्वन्तम् । सख्याय । हवामहे

1.101.3

यस्य । द्यावापृथिवी इति । पैंस्यम् । महत् । यस्य । व्रते । वरुणः । यस्य । सूर्यः । यस्य । इन्द्रस्य । सिन्धवः । सश्चति । व्रतम् । मरुत्वन्तम् । सख्याय । हवामहे

1.101.4

यः । अश्वानाम् । यः । गवाम् । गो--पतिः । वशी । यः । आरितः । कर्मणि-कर्मणि । स्थिरः । वीळोः । चित् । इन्द्रः । यः । असुन्वतः । वधः । मरुत्वन्तम् । सख्याय । हवामहे

1.101.5

यः । विश्वस्य । जगतः । प्राणतः । पतिः । यः । ब्रह्मणे । प्रथमः । गाः । अवि न्दत् । इन्द्रः । यः । दस्यून् । अधरान् । अव-अतिरत् । मरुत्वन्तम् । सख्याय । हवामहे

1.101.6

यः । शूरेभिः । हव्यः । यः । च । भीरु-भिः । यः । धावत्-भिः । हूयते । यः । च । जिग्युभिः । इन्द्रम् । यम् । विश्वा । भुवना । अभि । सम्-दधुः । मरुत्वन्तम् । सख्याय । हवामहे

1.101.7

॥12॥.
-र्व्_1:7।13-
रुद्राणाम् । एति । प्र-दिशा । वि-चक्षणः । रुद्रेभिः । योषा । तनुते । पृथु । ज्रयः । इन्द्रम् । मनीषा । अभि । अर्चति । श्रुतम् । मरुत्वन्तम् । सख्याय । हवामहे

1.101.8

यत् । वा । मरुत्वः । परमे । सध-स्थे । यत् । वा । अवमे । वृजने । मादयासे । अतः । आ । याहि । अध्वरम् । नः । अच्छ । त्वाया । हविः । चकृम । सत्य-राधः

1.101.9

त्वाया । इन्द्र । सोमम् । सुसुम । सु-दक्ष । त्वाया । हविः । चकृम । ब्रह्म-वाहः । अध । नि-युत्वः । स-गणः । मरुत्-भिः । अस्मिन् । यज्ञे । बर्हिषि । मादयस्व

1.101.10

माद्यस्व । हरि-भिः । ये । ते । इन्द्र । वि । स्यस्व । शिप्रे । वि । सृजस्व । धेनेइति । आ । त्वा । सु-शिप्र । हरयः । वहन्तु । उशन् । हव्यानि । प्रति । नः । जुषस्व

1.101.11

मरुत्-स्तोत्रस्य । वृजनस्य । गोपाः । वयम् । इन्द्रेण । सनुयाम । वाजम् । तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc