ऋग्वेदसंहिता, पदपाठ · अध्याय 1.100
॥7॥.
-र्व्_1:7।8-
(र्व्_1,100)
सः । यः । वृषा । वृष्ण्येभिः । सम्-ओकाः । महः । दिवः । पृथिव्याः । च । सम्-राट् । सतीन-सत्वा । हव्यः । भरेषु । मरुत्वान् । नः । भवतु । इन्द्रः । ऊती
यस्य । अनाप्तः । सूर्यस्य-इव । यामः । भरे--भरे । वृत्र-हा । शुष्मः । अस्ति । वृषन्-तमः । सखि-भिः । स्वेभिः । एवैः । मरुत्वान् । नः । भवतु । इन्द्रः । ऊती
दिवः । न । यस्य । रेतसः । दुघानाः । पन्थासः । यन्ति । शवसा । अपरि-इताः । तरत्-द्वेषाः । ससहिः । पैंस्येभिः । मरुत्वान् । नः । भवतु । इन्द्रः । ऊती
सः । अङ्गिरः-भिः । अङ्गिरः-तमः । भूत् । वृषा । वृष-भिः । सखि-भिः । सखा । सन् । ऋग्मि-भिः । ऋग्मी । गातु-भिः । ज्येष्ठः । मरुत्वान् । नः । भवतु । इन्द्रः । ऊती
सः । सूनु-भिः । न । रुद्रेभिः । ऋभ्वा । नृ-सह्ये । ससह्वान् । अमित्रान् । स-नीळेभिः । श्रवस्यानि । तूर्वन् । मरुत्वान् । नः । भवतु । इन्द्रः । ऊती
॥8॥.
-र्व्_1:7।9-
सः । मन्यु-मीः । स-मदनस्य । कर्ता । अस्माकेभिः । नृ-भिः । सूर्यम् । सनत् । अस्मि न् । अहन् । सत्-पतिः । पुरु-हूतः । मरुत्वान् । नः । भवतु । इन्द्रः । ऊती
तम् । ऊतयः । रणयत् । शूर-सातौ । तम् । क्षेमस्य । क्षितयः । कृण्वत । त्राम् । सः । विश्वस्य । करुणस्य् अ । ईशे । एकः । मरुत्वान् । नः । भवतु । इन्द्रः । ऊती
तम् । अप्सन्त । शवसः । उत्-सवेषु । नरः । नरम् । अवसे । तम् । धनाय । सः । अन्धे । चित् । तमसि । ज्योतिः । विदत् । मरुत्वान् । नः । भवतु । इन्द्रः । ऊती
सः । सव्येन । यमति । व्राधतः । चित् । सः । दक्षिणे । सम्-गृभीता । कृतानि । सः । कीरिणा । चित् । सनिता । धनानि । मरुत्वान् । नः । भवतु । इन्द्रः । ऊती
सः । ग्रामेभिः । सनिता । सः । रथेभिः । विदे । विश्वाभिः । कृष्ति-भिः । नु । अद्य । सः । पैंस्येभिः । अभि-भूः । अशस्तीः । मरुत्वान् । नः । भवतु । इन्द्रः । ऊती
॥9॥.
-र्व्_1:7।10-
सः । जामि-भिः । यत् । सम्-अजाति । मीळ्हे । अजामि-भिः । वा । पुरु-हूतः । एवैः । अपाम् । तोकस्य । तनयस्य । जेषे । मरुत्वान् । नः । भवतु । इन्द्रः । ऊती
सः । वज्र-भृत् । दस्यु-हा । भीमः । उग्रः । सहस्र-चेताः । शत-नीथः । ऋभ्वा । चम्रीषः । न । शवसा । पाञ्च-जन्यः । मरुत्वान् । नः । भवतु । इन्द्रः । ऊती
तस्य । वज्रः । क्रन्दति । स्मत् । स्वः-साः । दिवः । न । त्वेषः । रवथः । शिमी-वान् । तम् । सचन्ते । सनयः । तम् । धनानि । मरुत्वान् । नः । भवतु । इन्द्रः । ऊती
यस्य । अजस्रम् । शवसा । मानम् । उक्थम् । परि-भुजत् । रोदसी इति । विश्वतः । सीम् । सः । पारिषत् । क्रतु-भिः । मन्दसानः । मरुत्वान् । नः । भवतु । इन्द्रः । ऊती
न । यस्य । देवाः । देवता । न । मर्ता । आपः । चन । शवसः । अन्तम् । आपुः । सः । प्र-रिक्वा । त्वक्षसा । क्ष्मः । दिवः । च । मरुत्वान् । नः । भवतु । इन्द्रः । ऊती
॥10॥.
-र्व्_1:7।11-
रोहित् । श्यावा । सुमत्-अंशुः । ललामीः । द्युक्षा । राये । ऋज्र-अश्वस्य । वृषण्-वन्तम् । बिभ्रती । धूः-सु । रथम् । मन्द्रा । चिकेत । नाहुषीषु । विक्षु
एतत् । त्यत् । ते । इन्द्र । वृष्णे । उक्थम् । वार्षागिराः । अभि । गृणन्ति । राधः । ऋज्र-अश्वः । प्रष्टि-भिः । अम्बरीषः । सह-देवः । भयमानः । सु-राधाः
दस्यून् । शिम्यून् । च । पुरु-हूतः । एवैः । हत्वा । पृथिव्याम् । शर्वा । नि । बर्हीत् । सनत् । क्षेत्रम् । सखि-भिः । श्वित्न्येभिः । सनत् । सूर्यम् । सनत् । अपः । सु-वज्रः
विश्वाहा । इन्द्रः । अधि-वक्ता । नः । अस्तु । अपरि-ह्वृताः । सनुयाम । वाजम् । तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0