ऋग्वेदखिलानि · अध्याय 5.6
वायुर्.अग्रेगा.यज्ञप्रीस्.साकम्.गन्.मनसा.यज्ञम्.।
शिवो.नियुद्भिश्.शिवाभिः.।
हिरण्य.वर्तनी.नरा.देवा.पती.अभिष्टये.।
वायुश्.च.इन्द्रश्.च.सुमखा.।
काव्या.राजाना.क्रत्वा.दक्षस्य.दुरोणे.।
रिशादसा.सधस्थ.आ.।
दैव्या.अध्वर्यू.आगतम्.रथेन.सूर्य.त्वचा.।
मध्वा.यज्ञम्.समञ्जाथे.।
इन्द्र.उक्थेभिर्.भन्दिष्ठो.वाजानाम्.च.वाज.पतिः.।
हरिवान्.सुतानाम्.सखा.।
विश्वान्.देवान्.हवामहे.अस्मिन्.यज्ञे.सुपेशसः.।
त.इमम्.यज्ञम्.आगमन्.देवासो.देव्या.धिया.।
जुषाणा.अध्वरे.सदो.ये.यज्ञस्य.तनूकृतः.। विश्व.आ.सोम.पीतये.।
वाचा.महीम्.देवीम्.वाचम्.अस्मिन्.यज्ञे.सुपेशसम्.।
सरस्वतीम्.हवामहे.॥18(प्.141)
मूल पाठ: Ṛgvedakhilāni · Edition: J. Scheftelowitz: Die Apokryphen des Rgveda (Khilani). Breslau 1906 (Indische Forschungen 1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0