भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदखिलानि · अध्याय 5.4

5.4.1

विदा.मघवन्.विदा.गातुम्.अनु.शंसिषो.दिशः.।
शिक्षा.शचीनाम्.पते.पूर्वीणाम्.पुरूवसो.।(प्.134)

5.4.2

आभिष्.ट्वम्.अभिष्टिभिः.प्रचेतन.प्रचेतय.।
इन्द्र.द्युम्नाय.न.इष.एवा.हि.शक्रः.।

5.4.3

राये.वाजाय.वज्रिवश्.शविष्ठ.वज्रिन्.ऋञ्जसे.।
मन्हिष्ठ.वज्रिन्.ऋञ्जस.आयाहि.पिब.मत्स्व.।

5.4.4

विदा.राये.सुवीर्यम्.भुवो.वाजानाम्.पतिर्.वशाम्.अनु.।
मन्हिष्ठ.वज्रिन्.ऋञ्जसे.यश्.शविष्ठस्.शूराणाम्.।

5.4.5

यो.मन्हिष्ठो.मघोनाम्.चिकित्वो.अभि.नो.नय.।
इन्द्रो.विदे.तम्.उ.स्तुषे.वशी.हि.शक्रः.॥4

5.4.6

तम्.ऊतये.हवामहे.जेतारम्.अपराजितम्.।
स.नः.पर्षद्.अतिद्विषस्.क्रतुश्.छन्द.ऋतम्.बृहत्.।

5.4.7

इन्द्रम्.धनस्य.सातये.हवामहे.जेतारम्.अपराजितम्.।
स.नः.पर्षद्.अतिद्विषस्.स.नः.पर्षद्.अतिस्रिधः.।

5.4.8

पूर्वस्य.यत्.ते.अद्रिवस्.सुम्न.आधेहि.नो.वसो.।
पूर्तिश्.शविष्ठ.शश्वत.ईशे.हि.शक्रः.।

5.4.9

नूनम्.तम्.नव्यम्.मन्यसे.प्रभो.जनस्य.वृत्रहन्.।
सम्.अन्येषु.ब्रवावहै.शूरो.यो.गोषु.गच्छति.सखा.सुशेवो.अद्वयाः.॥5

5.4.10

एवा.ह्य्.एव.एवा.ह्य्.अग्ने.। एवा.ह्य्.एव.एवा.हि.विष्णो.।
एवा.ह्य्.एव.एवा.हि.इन्द्र.। एवा.ह्य्.एव.एवा.हि.पूषन्.।
एवा.ह्य्.एव.एवा.हि.देवाः.।

5.4.11

एवा.हि.शक्रो.वशी.हि.शक्रो.वशाम्.अनु.।
आयो.मन्याय.मन्यव.उपो.मन्याय.मन्यव.उपेहि.विश्वथ.॥6(प्.135)

मूल पाठ: Ṛgvedakhilāni · Edition: J. Scheftelowitz: Die Apokryphen des Rgveda (Khilani). Breslau 1906 (Indische Forschungen 1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc