ऋग्वेदखिलानि · अध्याय 5.7
होता.यक्षद्.अग्निम्.समिधा.सुषमिधा.समिद्धम्.नाभा.पृथिव्यास्.संगथे.वामस्य.। वर्ष्मम्.दिव.इडस्.पदे.वेत्व्.आज्यस्य.होतर्.यज.।
होता.यक्षत्.तनूनपातम्.अदितेर्.गर्भम्.भुवनस्य.गोपाम्.।
मध्वा.अद्य.देवो.देवेभ्यो.देव.यानान्.पथो.अनक्तु.वेत्व्.आज्यस्य.होतर्.यज.।
होता.यक्षन्.नराशंसम्.नृशस्तम्.नॄम्ः.प्रणेत्रम्.। गोभिर्.वपावान्.स्याद्.वीरैश्.शक्तीवान्.रथैः.प्रथमयावा.हिरण्यैश्.चन्द्री.वेत्व्.आज्यस्य.होतर्.यज.।
होता.यक्षद्.अग्निम्.इड.ईडितो.देवो.देवम्.आवक्षद्.दूतो.हव्यवाड्.अमूरः.। उप.इमम्.यज्ञम्.उप.इमाम्.देवो.देव.हूतिम्.अवतु.वेत्व्.आज्यस्य.होतर्.यज.।
होता.यकद्.बर्हिस्.सुष्टरीम.ऊर्ण.ंरदा.अस्मिन्.यज्ञे.वि.च.प्र.च.प्रथाम्.स्वासस्थम्.देवेभ्यः.। आ.ईम्.एनद्.अद्य.वसवो.रुद्रा.आदित्यास्.सदन्तु.प्रियम्.इन्द्रस्य.अस्तु.वेत्व्.आज्यस्य.होतर्.यज.।
होता.यक्षद्.दुर.ऋष्वाः.कवष्यो.कोष.धावनीर्.उद्.आताभिर्.जिहताम्.विप्रक्षोभिश्.श्रयन्ताम्.। सुप्रायणा.अस्मिन्.यज्ञे.विश्रयन्ताम्.ऋता.वृधो.व्यन्त्व्.आज्यस्य.होतर्.यज.।19
होता.यक्षद्.उषासा.नक्ता.बृहती.स्पुएशसा.नॄम्ः.पतिभ्यो.योनिम्.कृण्वाने.। संस्मयमाने.इन्द्रेण.देवैर्.आ.इदम्.बर्हिस्.सीदताम्.वीताम्.आज्यस्य.होतर्.यज.।
होता.यक्षद्.दैव्या.होतारा.मन्द्रा.पोतारा.कवी.प्रचेतसा.। स्विष्टम्.अद्य.अन्याः.करद्.इषा.स्वभिगूर्तम्.अन्य.ऊर्जा.स्वतवसा.इमम्.यज्ञम्.दिवि.देवेषु.धत्ताम्.वीताम्.आज्यस्य.होतर्.यज.।
होता.यक्षत्.तिस्रो.देवीर्.अपसाम्.अपस्तमा.अछिद्रम्.अद्य.इदम्.अपस्.तन्वताम्.।
होता.यक्षत्.त्वष्टारम्.अचिष्टम्.अपाकम्.रेतोधाम्.विश्व.वसम्.यशोधाम्.। पुरु.रूपम्.अकाम.कर्शनम्.सुपोषः.पोषैस्.स्यात्.सुवीरो.वीरैर्.वेत्व्.आज्यस्य.होतर्.यज.।(प्.142)
होता.यक्षद्.वनस्पतिम्.उप.अवस्रक्षद्.धियो.जोष्टारम्.शशमन्.नरः.। स्वदात्.स्वधितिर्.ऋतुथा.अद्य.देवो.देवेभ्यो.हव्यावाड्.वेत्व्.आज्यस्य.होतर्.यज.।
होता.यक्षद्.अग्निम्.स्वाजा.आज्यस्य.स्वाहा.मेदसस्.स्वाहा.स्तोकानाम्.स्वाहा.स्वाहा.कृतीनाम्.स्वाहा.हव्य.सूक्तीनाम्.। स्वाहा.देवा.आज्यपा.जुषाणा.अग्न.आज्यस्य.व्यन्तु.होतर्.यज.॥20
अजैद्.अग्निर्.असनद्.वाजन्.नि.देवो.देवेभ्यो.हव्यवाट्.। प्राञ्जोभिर्.हिन्वानो.धेनाभिः.कल्पमानो.यज्ञस्य.आयुः.। प्रतिरन्न्.उपप्रेष.होतर्.हव्या.देवेभ्यः.।
होता.यक्षद्.अग्निम्.आज्यस्य.जुषताम्.हविर्.होतर्.यज.।
होता.यक्षत्.सोमम्.आज्यस्य.जुषताम्.हविर्.होतर्.यज.।
होता.यक्षद्.अग्नी.षोमौ.छागस्य.वपाया.मेदसो.जुषेताम्.हविर्.होतर्.यज.।
होता.यक्षद्.अग्नी.षोमौ.पुरोडाशस्य.जुषेताम्.हविर्.होतर्.यज.। र्व्ख्_5.7.2f: होता.यक्षद्.अग्नी.षोमौ.छागस्य.हविष.आत्ताम्.अद्य.मध्यतो.मेद.उद्भृतम्.पुरा.देवेषोभ्यः.पुरा.पौरुषेय्या.गृभो.घस्ताम्.नूनम्.घाए.अज्राणाम्.यवस.प्रथमानाम्.सुमत्क्षराणाम्.शत.रुद्रियानाम्.अग्निष्वात्तानाम्.पीव.उपवसनानाम्.पार्श्वतश्.श्रोणितश्.शितामत.उत्सादतो.अङ्गाद्.अङ्गाद्.अवत्तानाम्.करत.एव.अग्नी.षोमौ.जुषेताम्.अह्विर्.होतर्.यज.॥21
देवेभ्यो.वनपते.हवींषि.हिरण्य.पर्ण.प्रदिवस्.ते.अर्थम्.। प्रदक्षिणिद्.रशनया.नियूय.ऋतस्य.वक्षि.पथिभी.रजिष्ठैः.।
होता.यक्षद्.वनस्पतिम्.अभि.हि.पिष्टतमया.रभिष्टया.रशनया.अधित.। यत्र.अग्नेर्.आज्यस्य.हविषः.प्रिया.धामानि.यत्र.सोमस्य.आज्यस्य.हविषः.प्रिया.धामानि.यत्र.अग्नीष्.ओमयोश्.छागस्य.हविषः.प्रिया.धामानि.यत्रा.वनस्पतेः.प्रिया.पाथांसि.यत्र.देवानाम्.आज्यपानाम्.प्रिया.धामानि.यत्र.अग्नेर्.होतुः.प्रिया.धामानि.तत्र.एतम्.प्रस्तुत्य्.एव.उपस्तुत्य्.एव.उपावस्रक्षद्.रभीयाम्.सम्.इव.कृत्वी.करद्.एवम्.देवो.वनस्पतिर्.जुषताम्.हविर्.होतर्.यज.।(प्.143)
वनस्पते.रशनया.नियूय.पिष्टतमया.वयुनानि.विद्वान्.। वहा.देवत्रा.दधिषो.हवींषि.प्र.च.दातारम्.अमृतेषु.वोचः.।
होता.यक्षद्.अग्निम्.स्विष्टकृतम्.अयाद्.अग्निर्.अग्नेर्.आज्यस्य.हविषः.प्रिया.धामान्य्.अयाट्.सोमस्य.आज्यस्य.हविषः.प्रिया.धामान्य्.अयाड्.अग्नी.षोमयोश्.छागस्य.हविषः.प्रिया.धामान्य्.अयाड्.वनस्पतेः.प्रिया.पाथांस्य्.अयाड्.देवानाम्.आज्यपानाम्.प्रिया.धामानि.यक्षद्.अग्नेर्.होतुः.प्रिया.धामानि.यक्षत्.स्वम्.महिमानम्.आयजताम्.एज्या.इषः.कृणोतु.सो.अध्वरा.जातवेदा.जुषताम्.हविर्.होतर्.यज.।
अग्निम्.अद्य.होतारम्.अवृणीतायम्.यजमानः.पचन्.पक्तीः.पचन्.पुरोडाशम्.गृह्णन्न्.अग्नय.आज्यम्.गृह्णन्.सोमायाज्यम्.बध्नन्न्.अग्नी.षोमाभ्याम्.छागम्.सूपस्थाद्य.देवो.ननस्पतिर्.अभवद्.अग्नय.आज्येन.सोमायाज्येन.अग्नी.षोमाभ्याम्.छागेन.आघत्ताम्.तम्.मेदस्तः.प्रति.पचत.अग्रभीष्टाम्.अवीवृधेताम्.पुरोडाशेन.त्वाम्.अद्य.ऋष.आर्षेय.ऋषीणाम्.नपाद्.अवृणीतायाम्.यजमानो.बहुभ्य.आ.संगतेभ्यः.। एष.मे.देवेषु.वसु.वार्य्.आयक्ष्यत.इति.ता.या.देवा.देव.दानान्य्.अदुस्.तान्य्.अस्मा.आ.च.शास्स्वा.च.गुरस्व.इषितश्.च.होतर्.असि.भद्र.वाच्याय.प्रेषितो.मानुषस्.सूक्त.वाकाय.सूक्ता.ब्रूहि.॥22
देवम्.बर्हिस्.सुदेवम्.देवैस्.स्यात्.सुवीरम्.वीरैर्.वस्तोर्.वृज्येत.अक्तोः.प्रभ्रियेत.अत्य्.अन्यान्.राया.बर्हिष्मतो.मदेम.वसुवने.वसुधेयस्य.वेतु.यज.।
देवीर्.द्वारस्.संघाते.वीड्वीर्.यामन्.शिथिरा.ध्रुवा.देव.हूतौ.वत्स.ईम्.एनास्.तरुणा.आमिमीयात्.कुमारो.वा.नव.जातो.मा.एना.अर्वा.रेणुक.काटः.प्रणग्.वसुवने.वसुधेयस्य.व्यन्तु.यज.।
देवी.उषासा.नक्ता.व्य्.अस्मिन्.यज्ञे.प्रयत्य्.अह्वेताम्.अपि.नूनम्.दैवीर्.विशः.प्रायासिष्ठाम्.सुप्रीते.सुधिते.वसुवने.वसुधेयस्य.वीताम्.यज.।
देवी.जोष्ट्री.वसुधिती.ययोर्.अन्य.अघा.द्वेषांसि.यूयवद्.आन्यावक्षद्.वसु.वार्याणि.यजमानाय.वसुवने.वसुधेयस्य.वीताम्.यज.।
देवी.ऊर्ज.आहुती.इषम्.ऊर्जम्.अन्यावक्षत्.सग्धिम्.सपीतिम्.अन्या.मवेन.पूर्वम्.दयमाना.स्याम.पुराणेन.नवम्.ताम्.ऊर्जम्.ऊर्ज.आहुती.ऊर्जयमाने.अधाताम्.वसुवने.वसुधेयस्य.वीताम्.यज.॥23(प्.144)
देवा.दैव्या.होतारा.पोतारा.नेष्टारा.हत.अघ.शंसाव्.आभरद्.वसू.वसुवने.वसुधेयस्य.वीताम्.यज.।
देवीस्.तिस्रस्.तिस्रो.देवीर्.इडा.सरस्वती.भारती.द्याम्.भारत्य्.आदित्यैर्.अस्पृक्षत्.सरस्वती.इमम्.रुद्रैर्.यज्ञम्.आवीद्.इह.एव.इडया.वसुमत्या.सधमादम्.मदेम.वसुवने.वसुधेयस्य.व्यन्तु.यज.।
देवो.नराशंसस्.त्रिशीर्षा.षडक्षश्.शतम्.इद्.एनम्.शिति.पृष्ठा.आदधति.सहस्रम्.ईम्.प्रवहन्ति.मित्रा.वरुण.इद्.अस्य.होत्रम्.अर्हतो.बृहस्पति.स्तोत्रम्.अश्विना.आध्वर्यवम्.वसुवने.वसुधेयस्य.वेतु.यज.।
देवो.वनस्पतिर्.वर्ष.प्रावा.घृत.निर्णिग्.द्याम्.अग्रेण.अस्पृक्षद्.आन्तरिक्षम्.मध्येन.अप्राः.पृथिवीम्.उपरेण.अदृंहीद्.वसुवने.वसुधेयस्य.वेतु.यज.।
देवम्.बर्हिर्.वारितीनाम्.निधेधासि.प्रच्युतीनाम्.अप्रच्युतम्.निकाम.धरणम्.पुरु.स्पार्हम्.यशस्वद्.एना.बर्हिषाण्या.बर्हींष्य्.अभिष्याम.वसुवने.वसुधेयस्य.वेतु.यज.।
देवो.अग्निस्.स्विष्टकृत्.सुद्रविणा.मन्द्रः.कविस्.सत्य.मन्म.आयाजी.होता.होतुर्.होतुर्.आयजीवान्.अग्ने.यान्.देवान्.अयाड्.याम्.अपिप्रेर्.ये.ते.होत्रे.अमत्सत.। ताम्.ससनुषीम्.होत्रान्.देवंगमाम्.दिवि.देवेषु.यज्ञम्.एरय.इमम्.स्विष्टकृच्.च.अग्ने.होता.अभूर्.वसुवने.वसुधेयस्य.नमोवाके.वीहि.यज.॥
होता.यक्षद्.इन्द्रम्.हरिवाम्.इन्द्रो.धाना.अत्तु.पूषण्वान्.करम्भम्.सरस्वतीवान्.भारतीवान्.परिवाप.इन्द्रस्य.अपूपो.मित्रा.वरुणयोः.पयस्या.प्रातस्.सावस्य.पुरोडाशाम्.इन्द्रः.प्रस्थिताम्.जुषाणो.वेतु.होतर्.यज.॥24
होता.यक्षद्.इन्द्रम्.हरिवान्.इन्द्रो.धाना.अत्तु.पूषण्वान्.करम्भम्.सरस्वतीवान्.भारतीवान्.परिवाप.इन्द्रस्य.अपूपो.माध्यंदिनस्य.सवनस्य.पुरोडाशाम्.इन्द्रः.प्रस्थिताम्.जुषाणो.वेतु.होतर्.यज.।
होता.यक्षद्.इन्द्रम्.हरिवान्.इन्द्रो.धाना.अत्तु.पूषण्वान्.करम्भम्.सरस्वतीवान्.भारतीवान्.परिवाप.इन्द्रस्य.अपूपस्.तृतीयस्य.सवनस्य.पुरोडाशाम्.इन्द्रः.प्रस्थितम्.जुषाणो.वेतु.होतर्.यज.।
होता.यक्षद्.अग्निः.पुरोडाशानाम्.जुषताम्.हविर्.होतर्.यज.।(प्.145)
होता.यक्षद्.वायुम्.अग्रेगाम्.अग्रेयावानम्.अग्रे.सोमस्य.पातारम्.करद्.एवम्.वायुर्.आवसा.गमज्.जुषताम्.वेतु.पिबतु.सोमम्.होतर्.यज.॥25
होता.यक्षद्.इन्द्र.वायू.अर्हन्ता.रिहाणा.गव्याभिर्.गोमन्ता.भ्रियन्ताम्.वीरस्या.शुक्रया.एनयोर्.नियुतो.गो.अग्रयाणाम्.वीरौ.कशा.अश्व.पुरस्तात्.तासाम्.इह.प्रयाणम्.आस्तिक.विमोचनम्.करत.एव.इन्द्र.वायू.जुषेताम्.वीताम्.पिबताम्.सोमम्.होतर्.यज.।
होता.यक्षन्.मित्रा.वरुणा.सुक्षत्त्रा.रिशादसा.नि.चिन्.मिषन्ता.निचिरा.निचय्यांसाक्ष्णश्.चिद्.गातु.वित्तर.अनुल्बणेन.चक्षसा.ऋतम्.ऋतम्.इति.दीध्याना.करत.एवम्.मित्रा.वरुणा.जुषेताम्.वीताम्.पिबेताम्.सोमम्.होतर्.यज.।
होता.यक्षद्.अश्विना.नासत्या.दीद्यग्नी.रुद्र.वर्तनी.न्य्.अन्तरेण.चक्रेण.च.वामीर्.इष.ऊर्ज.आवहतम्.सुवीरास्.सनुतरेण.अनरुषो.बाधेताम्.मधुकशया.इमम्.यज्ञम्.युवाना.मिमिक्षताम्.करत.एव.अश्विना.जुषेताम्.वीताम्.पिबेताम्.सोम.होतर्.यज.।
होता.यक्षद्.इन्द्रम्.प्रातः.प्रातस्.सावस्य्.अर्वावतो.गमद्.आ.परावत.आ.उरोर्.अन्तरिक्षाद्.आ.स्वात्.सधस्थाद्.इमे.अस्मै.शुक्रा.मधु.श्चुतः.प्रस्हिता.इन्द्राय.सोमास्.ताम्.जुषताम्.वेतु.पिबतु.सोमम्.होतर्.यज.
होता.यक्षद्.इन्द्रम्.माध्यंदिनस्य.सवनस्य.निष्केवल्यस्य.भागस्य.अत्तारम्.पातारम्.श्रोतारम्.हवम्.आगन्तारम्.अस्या.धियो.वितारम्.सुन्वतो.यजमानस्य.वृधम्.ओभा.कुक्षि.पृणताम्.वार्त्रघ्नम्.च.माह्गोनम्.च.इमे.अस्मै.शुक्रा.मन्थिनः.प्रस्थिता.इन्द्राय.सोमास्.ताम्.जुषटाम्.वेतु.पिबतु.सोमम्.होतर्.यज.॥26
होता.यक्षद्.इन्द्रम्.तृतीयस्य.सवनस्य.ऋभुमतो.विभुमतो.वाजवतो.बृहस्पतिवतो.विश्वदेव्यावतस्.सम्.अस्य.मदाः.प्रातस्तनाग्मत.सम्.माध्यंदिनास्.समिदातनास्.तेषाम्.समुक्षितानाम्.गौर.इव.प्रगाह्या.वृषायस्वायूया.बाहुभ्याम्.उपयाहि.हरिभ्याम्.प्रप्रुथ्या.शिप्रे.निष्पृथ्य.ऋजीषिन्न्.इमे.अस्मै.तीव्रा.आशीर्वन्तः.प्रस्थिता.इन्द्राय.सोमास्.ताम्.जुषताम्.वेतु.पिबतु.सोमम्.होतर्.यज.।
होता.यक्षद्.इन्द्रम्.मरुत्वन्तम्.इन्द्रो.मरुत्वान्.जुषताम्.वेतु.पिबतु.सोमम्.होतर्.यज.।
होता.यक्षद्.आदित्यान्.प्रियान्.प्रिय.धाम्नः.प्रिय.व्रतान्.महस्.स्वसरस्य.पतीन्.उरोर्.अन्तरिक्षस्य.अध्यक्षान्.स्वादित्यम्.(प्.146)।.अवोचत्.तद्.अस्मै.सुन्वते.यजमानाय.करन्न्.एवम्.आदित्या.जुषन्ताम्.मन्दन्ताम्.व्यन्तु.पिबन्तु.मन्दन्तु.सोमम्.होतर्.यज.।
होता.यक्षद्.देवम्.सवितारम्.परामीवान्.साविषत्.पराघ.शंसम्.सुसावित्रम्.असाविषत्.तद्.अस्मै.सुन्वते.यजमानाय.करद्.एवम्.देवस्.सविता.जुषताम्.मन्दताम्.वेतु.पिबतु.सोमम्.होतर्.यज.।
अग्निम्.अद्य.होतारम्.अवृणीतायम्.सुन्वन्.यजमानः.पचन्.पक्तीः.पचन्.पुरोडाशान्.गृह्णन्न्.अग्नय.आज्यम्.गृह्णन्.सोमा.याज्यम्.बध्नन्न्.अङ्गये.छागम्.सुन्वन्न्.इन्द्राय.सोम.भृज्ज.हरिभ्याम्.धानास्.सूपस्था.अद्य.देवो.वनस्पतिर्.अभवद्.अग्नये.आज्येन.सोमायाज्येन.अग्नये.छागेन.इन्द्राय.सोमेन.हरिभ्याम्.धानाभिर्.अघत्तम्.। मेदस्तः.प्रति.पचत.अग्रभीद्.अवीवृधत.पुरोडाशैर्.अपाद्.इन्द्रस्.सोमम्.गवाशिरम्.यवाशिरम्.तीव्र.अन्तम्.बहुल.मध्यम्.उप.उत्था.मदा.व्यश्रोद्.विमदाम्.आनड्.अवीवृधत.अङ्गूषैस्.त्वाम्.अद्य.ऋष.आर्षेय.ऋषीणाम्.नपाद्.अवृणीत.आयन्.सुन्वन्.यजमानो.बहुभ्य.आसंगतेभ्यः.। एष.मे.देवेषु.वसु.वार्य्.आयक्ष्यत.इति.ता.या.देवा.देव.दानान्य्.अदुस्.तान्य्.अस्मा.आ.च.शास्स्वा.च.गुरस्व.इषितश्.च.होतर्.असि.भद्र.वाच्याय.प्रेषितो.मानुषस्.सूक्त.वाकाय.सूक्ता.ब्रूहि.॥27
धाना.सोमानाम्.इन्द्राद्द्.हि.च.पिब.च.बब्धान्.ते.हरी.धाना.उप.ऋजीषम्.जिघ्रताम्.आ.रथ.चर्षणे.सिञ्चस्व.यत्.त्वा.पृच्छाद्.विषम्.पत्नीः.क्व.अमीमदथा.इत्य्.अस्मिन्.सुन्वति.यजमाने.तस्मै.किम्.अरास्थाः.। सुष्ठु.सुवीर्यम्.यज्ञस्य.अगुर.उदृचम्.यद्.यद्.अचीकमत.उत्.तत्.तथा.अभूद्द्.होतर्.यज.।
इह.मद.एव.मघवन्न्.इन्द्र.ते.श्वो.वसुमतो.रुद्रवतो.आदित्यवत.ऋभुमतो.विभुमतो.वाजवतो.बृहस्पतिवतो.विश्वदेव्यावतश्.श्वस्सुत्याम्.अग्निम्.इन्द्राय.इन्द्र.अग्निभ्याम्.प्रब्रूहि.। मित्र.वरुणाभ्याम्.वसुभ्यो.रुद्रेभ्यो.आदित्येभ्यो.विश्वेभ्यो.देवेभ्यो.ब्रह्मणेभ्यस्.सोम्येभ्यस्.सोमपेभ्यो.ब्रह्मन्.वाचम्.यच्छ.।
होता.यक्षद्.अश्विना.सोमानाम्.तिरो.अह्न्यानाम्.त्रिर्.आ.वर्तिर्.याताम्.त्रिर्.अह.मानयेथाम्.उतो.तुरीयम्.नासत्या.वाजिनाय.देवाः.। सजूर्.अग्नि.रोहिद्.अश्वो.घृतस्नुः.। सजूर्.उषा.अरूषेभिः.।सजूस्.सूर्य.एतशेभिः.।सजोषसाव्.अश्विना.दंसोभिः.करत.एव.अश्विना.जुषेताम्.मन्देताम्.वीताम्.पिबेताम्.सोमम्.होतर्.यज.॥28(प्.147)
होता.यक्षद्.इन्द्रम्.होत्रात्.सजूर्.दिवा.पृथिव्या.ऋतुना.सोमम्.पिबतु.होतर्.यज.।
होता.यक्षन्.मरुतः.पोत्रात्.सुष्टुभस्.स्वर्का.ऋतुना.सोमम्.पिबन्तु.पोतर्.यज.।
होता.यक्षद्.ग्रावो.नेष्ट्रात्.त्वष्टा.सुजनिमा.सजूर्.देवानाम्.पत्नीभिर्.ऋतुना.सोमम्.पिबतु.नेष्टर्.यज.।
होता.यक्षद्.अग्निम्.आग्नीध्राद्.ऋतुना.सोमम्.पिबत्व्.अग्नीद्.यज.।
होता.यक्षद्.इन्द्रम्.ब्रह्माणम्.ब्रह्मणाद्.ऋतुना.सोमम्.पिबतु.ब्रह्मन्.यज.।
होता.यक्षन्.मित्रा.वरुणा.प्रशास्तारौ.प्रशास्त्राद्.ऋतुना.सोमम्.पिबताम्.प्रशास्तर्.यज.।29
होता.यक्षद्.देवम्.द्रविणोदाम्.होत्राद्.ऋतुभिस्.सोमम्.पिबतु.होतर्.यज.।
होता.यक्षद्.देवम्.द्रविणोदाम्.पोत्राद्.ऋतुभिस्.सोमम्.पिबतु.पोतर्.यज.।
होता.यक्षद्.देवम्.द्रविणोदाम्.नेष्ट्राद्.ऋतुभिस्.सोमम्.पिबतु.नेष्टर्.यज.।
होता.यक्षद्.देवम्.द्रविणोदाम्.अपाद्.होत्राद्.अपात्.पोत्राद्.अपान्.नेष्ट्रात्.तुरीयम्.पात्रम्.अमृक्तम्.अमर्त्यम्.इन्द्र.पानम्.देवो.द्रविणोदाः.पिबतु.द्राविणोदसः.। स्वयम्.आयूयास्.स्वयम्.अभिगूर्याः.। स्वयम्.अभिगूर्तया.होत्राय.ऋतुभिस्.सोमस्य.पिबत्व्.अच्छावाक.यज.।
होता.यक्षद्.अश्विना.अध्वर्यू.आध्वर्यवाद्.ऋतुना.सोमम्.पिबेताम्.अध्वर्यू.यजताम्.।
होता.यक्षद्.अग्निम्.गृहपतिम्.गार्हपत्यात्.सुगृहपतिस्.त्व्.अध.अग्ने.याम्.सुन्वन्.यजमानस्.स्यात्.सुगृहपतिस्.त्वम्.अनेन.सुन्वता.यजमानस्.स्यास्.सुगृहपतिस्.त्वम्.अनेन.सुन्वता.यजमानेन.अग्निर्.गृहपतिर्.गार्हपत्याद्.ऋतुना.सोमम्.पिबतु.गृहपते.यज.॥30॥(प्.148)र्व्ख्_(कुन्ताप.अध्याय)विइइ-xxइइ:
मूल पाठ: Ṛgvedakhilāni · Edition: J. Scheftelowitz: Die Apokryphen des Rgveda (Khilani). Breslau 1906 (Indische Forschungen 1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0