ऋग्वेदखिलानि · अध्याय 5.3
प्र.अध्वराणाम्.पते.वसो.होतर्.वरेण्य.क्रतो.।
तुभ्यम्.गायत्रम्.ऋच्यते.।
गो.कामो.अन्न.कामः.प्रजा.कामा.उत.कश्यपः.।
भूतम्.भविष्यत्.प्रस्तौति.महद्.ब्रह्म.एकम्.अक्षरम्.बहु.ब्रह्म.एकम्.अक्षरम्.।
यद्.अक्षरम्.भूतकृतो.विश्वे.देवा.उपासते.।
महर्षिम्.अस्य.गोप्तारम्.जमदग्निम्.अकुर्वत.।
जमदग्निर्.आप्यायते.छन्दोभिश्.चतुर्.उत्तरैः.।(प्.133)
राज्ञस्.सोमस्य.भक्षेण.ब्रह्मणा.वीर्यवताम्.शिवा.नः.प्रदिशो.दिशः.।
अजो.यत्.तेजो.ददृशे.शुक्रम्.ज्योतिः.परो.गुहा.।
तद्.ऋषिः.कश्यप.स्तौति.सत्यम्.ब्रह्म.चर.अचरम्.ध्रुवम्.ब्रह्म.चर.अचरम्.।
त्र्यायुषम्.जमदग्नेः.कश्यपस्य.त्र्यायुषम्.।
अगस्त्यस्य.त्र्यायुषम्.यद्.देवानाम्.त्र्यायुषम्.तन्.नो.अस्तु.त्र्यायुषम्.।
तत्.शम्योर्.आवृणीमहे.गातुम्.यज्ञाय.गातुम्.यज्ञ.पतये.दैवी.स्वस्तिर्.अस्तु.नस्.स्वस्तिर्.मानुषेभ्यः.।
ऊर्ध्वम्.जिगातु.भेषजम्.शम्.नो.अस्तु.द्विपदे.शम्.चतुष्पदे.॥3
मूल पाठ: Ṛgvedakhilāni · Edition: J. Scheftelowitz: Die Apokryphen des Rgveda (Khilani). Breslau 1906 (Indische Forschungen 1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0