ऋग्वेदखिलानि · अध्याय 5.15
एता.अश्वा.आप्लवन्ते.। प्रतीपम्.प्रातिसत्वनम्.।
तासाम्.एका.हरिक्लिका.। हरिक्लिके.किम्.इच्छसि.।(प्.159)
साधुम्.पुत्रम्.हिरण्ययम्.। क्व.अह.तम्.परास्यः.।
यत्र.अमूस्.तिस्रश्.शिंशपाः.। परि.त्रयः.पृदाकवः.।
शृङ्गम्.धमन्त.आसते.। अयम्.वहाते.अवहि.।
स.इत्थ.कम्.स.एव.कम्.। सघा.घ.ते.सघा.घ.मे.।
गोमी.घ.गिमिनीर्.अभि.। पुमान्.भूम्ने.निनित्ससि.।
बल्बब्.अथो.इति.। बल्बबो.अथो.इति.।
अजकोरकोविका.। अश्वस्य.वारो.गोश्.शफः.।
केशिनी.श्येनी.एनीव.। अनामया.उपजिह्विका.॥38
को.अम्ब.हुलम्.अयुनि.। को.अर्जुन्याः.पयः.।
को.असिक्न्याः.पयः.। एतम्.पृच्छ.कुहम्.पृच्छ.।
कुहा.कम्.पक्वकम्.पृच्छ.। य.आयन्ति.श्वभिष्.कुभिः.।
अब्जन्तः.कुभायवः.। आमनको.मनस्थकः.।
देवत्तः.प्रति.जूर्यः.। पिनष्टि.पर्तिका.हविः.।
प्र.बुद्बुदो.मथायति.। शुङ्ग.उत्पत.।
इरा.च.इन्द्रम्.अमन्दत.। इयन्न्.इयन्न्.इति.।
अथो.इयन्न्.इति.। अथो.ज्यायस्तरो.भुवत्.।
इयम्.यका.सलाकका.। आमिनोति.निभज्यते.॥39
तस्या.अनुनिभञ्जनम्.। वरुणो.याति.बभ्रुभिः.।
शतम्.बभ्रोर्.अभीशुभिः.। शतम्.कशा.हिरण्ययीः.।
शतम्.रथा.हिरण्ययाः.। आहकलुश्.शवर्तकः.।
आयवनेन.तेजनी.। शफेन.पीव.ओहते.।
वनिष्ठुना.उपनृत्यति.। इमम्.मह्यम्.अदुर्.इति.।
ते.वृष्कास्.सह.तिष्ठन्ति.। पाकवलिश्.शकवलिः.।
अश्वत्तः.खदिरो.धवः.। अरदुः.परमश्.शये.।
हत.इव.पाप.पूरुषः.। अदोहम्.इत्.पियूषकम्.।
द्वम्.च.हस्तिनो.दृती.। अध्यर्धम्.च.परस्वतः.।
आद्.अलाबुकम्.एककम्.। अलाबुकम्.निखातकम्.॥40
कर्करिको.निखातकः.। तद्.वात.उन्मथायति.।
कुलायम्.करवान्.इति.। उग्रम्.वल्षद्.आततम्.।
न.वल्षद्.अनाततम्.। क.एषाम्.कर्करिम्.लिखत्.।
क.एषाम्.दुन्दुभिम्.हनत्.। यद्.ईम्.हनत्.कथम्.हनत्.।
दैलीम्.हनत्.कथम्.हनत्.। पर्य्.आकरम्.पुनः.पुनः.॥41(प्.160)
मूल पाठ: Ṛgvedakhilāni · Edition: J. Scheftelowitz: Die Apokryphen des Rgveda (Khilani). Breslau 1906 (Indische Forschungen 1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0