भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदखिलानि · अध्याय 5.14

5.14.1

यद्.इन्द्रादो.दश.राज्ञे.मानुषम्.विगाहथाः.।
विरूपस्.सर्वस्मा.आसीत्.सदृग्.अक्षाय.वञ्चते.।

5.14.2

त्वम्.विष.अक्षम्.मघवन्.नंरम्.पर्याकरोर्.अभि.।
त्वम्.रौहिणम्.व्यास्यम्.त्वम्.वृत्रस्य.अभिनत्.शिरः.।

5.14.3

यः.पर्वतान्.व्यदधाद्.यो.अपो.व्यगाहथाः.।
यो.वृत्रम्.वृत्रहन्न्.अहन्.तस्मा.इन्द्र.नमो.अस्तु.ते.।

5.14.4

प्रष्टिम्.धावन्तम्.हर्योर्.औच्चैश्श्रवसम्.अब्रवम्.।
स्वस्त्य्.अश्व.जैत्राय.इन्द्रम्.आवहतो.रथम्.।

5.14.5

यत्वा.श्वेता.उच्चैश्श्रवसम्.हर्योर्.युञ्जन्ति.दक्षिणम्.।
मूर्धानम्.अश्वम्.देवानाम्.बिभ्रद्.इन्द्रम्.महीयते.॥37

मूल पाठ: Ṛgvedakhilāni · Edition: J. Scheftelowitz: Die Apokryphen des Rgveda (Khilani). Breslau 1906 (Indische Forschungen 1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc