भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदखिलानि · अध्याय 5.16

5.16.1

विततौ.किरणौ.द्वौ.ताव्.आपिनष्टि.पूरुषः.।
न.वै.कुमारि.तत्.तथा.यथा.कुमारि.मन्यसे.।

5.16.2

मातुष्.टे.किरणौ.द्वौ.नीवीतः.पुरुषाद्.ऋते.।
न.वै.कुमारि.तद्.तथा.यथा.कुमारि.मन्यसे.।

5.16.3

निगृह्य.कर्णकौ.द्वौ.निरायच्छसि.मध्यमम्.।
न.वै.कुमारि.तत्.तथा.यथा.कुमारि.मन्यसे.।

5.16.4

उत्तानायै.शयनायै.तिष्ठन्न्.एव.अवगूहसि.।
न.वै.कुमारि.तत्.तथा.यथा.कुमारि.मन्यसे.।

5.16.5

श्लक्ष्णावाम्.श्लक्ष्णिकायाम्.श्लक्ष्णम्.एव.अवगूहसि.।
न.वै.कुमारि.तत्.तथा.यथा.कुमारि.मन्यसे.।

5.16.6

अव.श्लक्ष्णम्.अवभ्रशद्.अन्तर्.लोमवती.ह्रदे.।
न.वै.कुमारि.तत्.तथा.यथा.कुमारि.मन्यसे.॥42(प्.162)

मूल पाठ: Ṛgvedakhilāni · Edition: J. Scheftelowitz: Die Apokryphen des Rgveda (Khilani). Breslau 1906 (Indische Forschungen 1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc