भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदखिलानि · अध्याय 4.8

4.8.1

मेधाम्.मह्यम्.अङ्गिरसो.मेधाम्.सप्तर्षयो.ददुः.।
मेधाम्.इन्द्रश्.च.अग्निश्.च.मेधाम्.धाता.दधातु.मे.।

4.8.2

मेधाम्.मे.वरुणो.राजा.मेधाम्.देवी.सरस्वती.।
मेधाम्.मे.अश्विनौ.देवाव्.आधत्तम्.पुष्कर.स्रजा.।

4.8.3

या.मेधा.अप्सरस्सु.गन्धर्वेषु.च.यन्.मनः.।
दैवी.या.मानुषी.मेधा.सा.माम्.आविशताद्.इह.।

4.8.4

यन्.मेनु.उक्तम्.तद्.रमताम्.शकेयम्.यद्.अनुब्रुवे.।
निशामितम्.निशामये.मयि.श्रुतम्.। सह.व्रतेन.भूयासम्.ब्रह्मणा.संगमेमहि.।

4.8.5

शरीरम्.मे.विचक्षण.वान्.मे.मधुमद्.दुहे.।
अवृधम्.अहम्.असौ.सूर्यो.ब्रह्मण.आणीस्.स्थ.। श्रुतम्.मे.मा.प्रहासीः.॥16

4.8.6

मेधाम्.देवीम्.मनसा.रेजमानाम्.गन्धर्व.जुष्टाम्.प्रति.नो.जुषस्व.।
मह्यम्.मेधाम्.वद.मह्यम्.श्रियम्.वद.मेधावी.भूयासम्.अजिराचरिष्णुः.।

4.8.7

सदसस्.पतिम्.अद्भुतम्.प्रियम्.इन्द्रस्य.काम्यम्.।
सनिम्.मेधाम्.अयासिषम्.।(प्.121)

4.8.8

मेधाव्य्.अहम्.सुमनास्.सुप्रतीकश्.श्रद्धा.मनास्.सत्य.मतिस्.सुशेवः.।
महा.यशा.धारयिष्णुः.प्रवक्ता.भूयासम्.अस्य.ईश्वरया.प्रयोगे.।

4.8.9

याम्.मेधाम्.देव.गणाः.पितरश्.च.उपासते.।
तया.माम्.अद्य.मेधया.अग्ने.मेधाविनम्.कुरु.॥17(प्.122)

मूल पाठ: Ṛgvedakhilāni · Edition: J. Scheftelowitz: Die Apokryphen des Rgveda (Khilani). Breslau 1906 (Indische Forschungen 1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc