ऋग्वेदखिलानि · अध्याय 4.7
भूमिर्.माता.नभः.पिता.अर्यमा.ते.पितामहः.।
घृताची.नाम.वा.असि.सा.देवानाम्.असि.स्वसा.।
य.त्वा.पिबति.जीवति.त्रायसे.पुरुषम्.त्वम्.।
त्रात्रिणी.शश्वताम्.असि.शश्वताम्.सम्यञ्चनी.।
यद्.दण्डेन.यद्.इषुणा.यद्.वारुर्.हरसा.कृतम्.।
तस्य.त्वम्.असि.निष्कृतिस्.सानौ.निष्कृत्य.ओषधीः.।
वृक्षम्.वृक्षम्.सम्पतसि.वृक्षायन्ति.इव.कन्यना.।
जयन्ती.प्रत्यातिष्ठन्ती.संजेया.नाम.वा.असि.।
भद्रात्.प्लक्षे.निस्तिष्ठ.अश्वत्थे.खदिरे.धवे.।
भद्रात्.पर्णे.न्यग्रोधे.सा.माम्.रौत्सीद्.अरुन्धती.।
अश्वस्य.असृक्.सम्पतसि.तत्.पर्णम्.अभितिठसि.।
सरत्.पतत्य्.अरुणसि.सा.माम्.रौत्सीद्.अरुन्धती.।(प्.119)
हिरण्य.पर्णे.सुभगे.सो.अक्ष्मे.(.सोक्ष्मे.).लोमशवक्षणे.।
अपाम्.असि.स्वसा.लाक्षे.वातो.ह.आत्मा.बभूव.ते.।
तव.त्य.इन्द्र.सख्येषु.वह्नयः.॥15
रात्री.माता.नभः.पिता.अर्यमा.ते.पितामहः.।
शिलादी.नाम.वा.असि.सा.देवानाम्.असि.स्वसा.।
यस्.त्वा.पिबति.जीवति.त्रायसे.पुरुषम्.त्वम्.।
धरत्री.च.शश्वताम्.असि.शश्वताम्.न्यन्वञ्चनीम्.।
यद्.अण्डेन.यद्.उष्टा.यद्.अदुर्.हरसा.कृतम्.।(प्.121)
तस्य.त्वम्.असि.भीषजीम्.निष्कृतिर्.नाम.वासी.।
भद्रा.प्रक्षेण.तिष्ठस्य्.अश्वत्थे.खदिरे.धवे.।
भद्रा.न्यग्रोधे.पर्णे.मा.नेह्य्.अरुन्धती.।
वृक्षम्.वृक्षम्.आरोहसि.वृषण्यन्ति.इव.कन्यला.।
जयन्ती.प्रत्यातिष्ठन्ती.संजया.नाम.वासी.।
हिरण्य.वर्णे.युवते.शुष्मे.लोम.समक्षणे.।
अपाम्.असि.स्वसा.लाक्षे.वातो.यत्.सा.बभूव्यथे.।
हिरण्य.बाहू.सुभगे.सूर्य.वर्णे.वपुष्टमे.।
ऋतम्.गच्छसि.निष्कृधि.सा.इमम्.निष्कृधि.पौरुषम्.।
घृताची.नाम.कानीनो.न.बभ्रु.पिता.भव.।
अश्वो.यमस्ये.श्रावस्.ता.अस्य.ह.अस्त्ना.अस्य्.उक्षत.।
अश्वस्य.अस्त्नस्.सम्पतिता.सा.पर्णम्.अभिशुष्यत.।
सदा.पततिन्न्.असि.मा.नेह्य्.अरुन्धती.।
घृताचके.वाम.रते.विद्युत्.पर्णे.अरुन्धती.।
या.तुरङ्ग.मिष्टा.असि.त्वम्.अङ्ग.निष्करी.यसी.।
यत्.ते.जग्रधम्.पिशाचैस्.तत्.तर्हा.अप्य्.आयताम्.पुनः.।
लाक्षा.यद्वा.विश्व.भेषजीर्.देवेभिस्.त्रायताम्.सह.॥
मूल पाठ: Ṛgvedakhilāni · Edition: J. Scheftelowitz: Die Apokryphen des Rgveda (Khilani). Breslau 1906 (Indische Forschungen 1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0