भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदखिलानि · अध्याय 4.10

4.10.1

वेनस्.तत्.पश्यद्.भुवनस्य.विद्वान्.यत्र.विश्वम्.भुवत्य्.एक.नीडम्.।
इदम्.धेनुर्.अदुहज्.जायमाना.स्वर्विदम्.अभ्यनूषत.व्रा.ह्।

4.10.2

प्र.तद्.वोचेद्.अमृतम्.नु.विद्वान्.गन्धर्वो.नाम.निहितम्.गुहा.यत्.।
त्रीणि.पदानि.निहिता.गुहा.अस्य.यस्.तानि.वेद.स.पितुष्.पिता.आसत्.।

4.10.3

सतो.बन्धुर्.जनिता.स.विधाता.धामानि.वेद.भुवनानि.विश्वा.।
यत्र.देवा.अमृतम्.अनाशानास्.तृतीये.धामन्न्.अभ्य्.ऐरयन्त.।
अक्षीभ्याम्.ते.नासिकाभ्याम्.॥19(प्.126)

4.10.1

वेनस्.तत्.पश्यन्त.परमम्.पदम्.यत्र.विश्वम्.भवत्य्.एकनडम्.।
इदम्.धेनुर्.अदुहज्.जायमानास्.स्वर्विदो.अभ्यनुक्ति.विराट्.।

4.10.2

पृथग्.वोचेद्.अमृतम्.न.विद्वान्.गन्धर्वो.धाम.परमम्.गुहा.यत्.।
त्रीणि.पदानि.हता.गुहासु.वस्.तानि.वेद.स.पितुष्.पिता.आसत्.।

4.10.3

स.नो.बन्धुर्.जनिता.स.विधन्ता.धामानि.वेद.भुवनानि.विश्वा.।
यत्र.देवा.अमृताम्.आनशाना.समाने.धामन्न्.अद्धीरयन्त.।

4.10.4

परि.विश्वा.भुवनान्य्.आयम्.उपाचष्टे.प्रथमजा.ऋतस्य.।
वाचसि.वाक्त्रि.भुवनेष्ठा.धास्रम्.नेषणत्वेषो.अग्निः.।

4.10.5

परि.द्यावा.पृथि.सद्यायम्.ऋतस्य.तन्तुम्.वितरम्.दृकेशम्.।
देवो.देवत्वम्.अभिरक्षमाणस्.समानम्.बन्धुम्.विपरिच्छदे.कः.॥

मूल पाठ: Ṛgvedakhilāni · Edition: J. Scheftelowitz: Die Apokryphen des Rgveda (Khilani). Breslau 1906 (Indische Forschungen 1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc