ऋग्वेदखिलानि · अध्याय 4.6
आयुष्यम्.वर्चस्यम्.रायस्.पोषम्.औद्भिदम्.।
इद.हिरण्यम्.वर्चस्वज्.जैत्राया.विशताद्.उ.माम्.।
उच्चैर्.वाजि.पृतनाषट्.सभासाहम्.धनंजयम्.।
सर्वास्.समग्रा.ऋद्धयो.हिरण्ये.अस्मिन्.समाहृताः.।
शुनम्.अहम्.हिरण्य.स्वपितुर्.नाम.इव.जग्रभ.।
तेन.माम्.सूर्य.त्वचम्.अकरम्.पुरुष.प्रियम्.।
संराजम्.च.विराजम्.च.अभिष्टिर्.या.च.मे.ध्रुवा.।
लक्ष्मी.राष्ट्रस्य.या.मुखे.तया.माम्.इन्द्र.संसृज.।
अग्ने.ः.प्रजातम्.परि.यद्द्.हिरण्यम्.अमृतम्.जज्ञे.अधि.मर्त्येषु.।
य.एनद्.वेद.स.इद्.एनद्.अर्हति.जरा.मृत्युर्.भवति.यो.बिभर्ति.॥13
यद्.वेद.राजा.वरुणो.यद्.उ.देवी.सरस्वती.।
इन्द्रो.यद्.वृत्रहा.वेद.तन्.मे.वर्चस.आयुषे.।
न.तद्.रक्षांसि.न.पिशाचास्.तरन्ति.देवानाम्.ओजः.प्रथमजाम्.ह्य्.एतत्.।
यो.बिभर्ति.दाक्षायणा.हिरण्यम्.स.देवेषु.कृणुते.दीर्घम्.आयुस्.स.मनुष्येषु.कृणुते.दीर्घम्.आयुः.।
यद्.अबध्नन्.दाक्षायणा.हिरण्यम्.शत.अनीकाय.सुमनस्यमानाः.।(प्.117)
तन्.मा.आबध्नामि.शत.शारदाय.आयुष्मान्.जरदष्टिर्.यथा.आसत्.।
घृताद्.उल्लुप्तम्.मधुमत्.सुवर्णम्.धनंजयम्.धरुणम्.धारयिष्णु.।
ऋणक्.सपत्नान्.अधरांश्.च.कृण्वद्.आरोह.माम्.महते.सौभगाय.।
प्रियम्.मा.कुरु.देवेषु.प्रियम्.राजसु.मा.कुरु.।
प्रियम्.विश्वेषु.गोप्त्रेषु.मयि.धेहि.रुचा.रुचम्.।
न.असद्.आसीन्.नो.सद्.आसीत्.॥14(प्.118)
मूल पाठ: Ṛgvedakhilāni · Edition: J. Scheftelowitz: Die Apokryphen des Rgveda (Khilani). Breslau 1906 (Indische Forschungen 1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0