ऋग्वेदखिलानि · अध्याय 4.5
याम्.कल्पयन्ति.नो.अरयः.क्रूराम्.कृत्याम्.वधूम्.इव.।
ताम्.ब्रह्मणा.परि.निज्मः.प्रत्यक्.कर्तारम्.ऋच्छतु.।
शीर्षण्वतीम्.कर्णवतीम्.विश्व.रूपाम्.भयम्.करीम्.।
यः.प्राहिणोमि.हाद्य.त्वा.वि.तत्.त्वम्.योजय.अशुभि.।
य्न.चित्तेन.वदसि.प्रतिकूलम्.अघायूनि.।
तम्.एवम्.ते.नि.कृत्ये.ह.मा.अस्मान्.ऋष्यो.अनागसः.।(प्.113)
अभिवर्तस्व.कर्तारम्.निरस्ता.अस्माभिर्.ओजसा.।
आयुर्.अस्य.निवर्तस्व.प्रजाम्.च.पुरुषादिनि.।
यस्.त्वा.कृत्ये.चकार.इह.तन्.त्वम्.गच्छ.पुनर्नवे.।
अरातीः.कृत्यान्.नाशय.सर्वाश्.च.यातु.धान्यः.॥5
क्षिप्रम्.कृत्ये.निवर्तस्व.कर्तुर्.एव.गृहान्.प्रति.।
पशूंश्.च.अवास्य.नाशय.वीरांश्.च.अस्य.निबार्हय.।
यस्.त्वा.कृत्ये.प्र.जिगाति...
...
यस्.ते.परूंषि.संदधौ.रथस्य.इव.ऋभुर्.धिया.।
तम्.गृच्छ.तत्र.ते.जनम्.अज्ञातस्.ते.यम्.जनः.॥6
..कश्चिद्.वा.न्यभिहिंसति.।
तस्य.त्वम्.द्रोर्.इव.इद्धो.अग्निस्.तनुः.पृच्छस्व.हेडितः.।
ब्ः....स्य.ते.पाप.कृत्वने.।
हरस्वतीस्.त्वम्.च.कृत्ये.न.उत्.शिरस्.तस्य.किंचन.।
ये.नो.शिवासः.पन्थानः.परायान्ति.परावतम्.।
तैर्.देव्य्.अरातीः.कृत्या.नो.गमयस्वा.निवर्तय.।
यो.नः.कश्चिद्.द्रुहो.अरातिर्.मनसा.अप्य्.अभिदासति.।
दूरस्थो.वा.अन्तिकस्थो.वा.तस्य.हृद्यम्.असृक्.पिब.।
येन.असि.कृत्ये.प्रहिता.दूढ्येन.अस्मज्.जिघांसया.।
तस्य.व्यनच्.च.अव्यनच्.च.हिनस्तु.शरदा.अशनिः.॥7
यद्य्.उ.वैषि.द्विपद्य्.अस्मान्.यदि.वैषि.चतुष्पदी.।
निरस्तातो.अव्रता.अस्माभिः.कर्तुः.अष्टापदी.गृहम्.।
यो.नस्.शपाद्.अशपतो.यश्.च.नश्.शपतश्.शपात्.।
वृक्ष.इव.विद्युता.हत.आ.मूलाद्.अनुशिष्यतु.।
यम्.द्विष्मो.यश्.च.नो.द्वेष्ट्य्.अघायुर्.यश्.च.नश्.शपात्.।
शुने.पेष्ट्रम्.इव.अवक्षामम्.तम्.प्रत्य्.अस्यामि.मृत्यवे.।
यश्.च.सापत्नश्.शपथो.यश्.च.जाम्याश्.शपथः.।
ब्रह्मा.च.यत्.क्रुद्धश्.शपात्.सर्वम्.तत्.कृध्य्.अधस्पदम्.।
सबन्धुश्.च.असबन्धुश्.च.यो.अस्मान्.अभिदासति.।
तस्य.त्वम्.भिन्ध्य्.अधिष्ठाय.पदा.विष्पूर्यते.शिरः.॥8
अभि.प्रेहि.सहस्र.अक्षम्.युक्त्वा.आशुम्.शपथ.रथम्.।
शत्रूंर्.अन्विच्छती.कृत्य्.वृकी.इव.अविवृतो.गृहान्.।
परि.णो.वृन्धि.शपथान्.दहन्न्.अग्निर्.इव.व्रजम्.।
शत्रूंर्.एव.आ.विनोजहि.दिव्या.वृक्षम्.इव.अशनिः.।
शत्रून्.मे.प्रोष्ट.शपथान्.कृत्याश्.च.सुहृदो.हृद्याः.।
जिह्माश्.श्लक्ष्णाश्.च.दुर्हृदस्.समिद्धम्.जातवेदसम्.।
असपत्नम्.पुरस्तान्.नश्.शिवम्.दक्षिणतस्.कृधि.।
अभयम्.सततम्.पश्चाद्.भद्रम्.उत्तरतो.गृहे.।(प्.114)
परेहि.कृत्ये.मा.तिष्ठ.वृद्धस्य.इव.पदम्.नय.।
मृगस्य.हि.मृगारिस्.त्वम्.तन्.त्वम्.निकर्तुम्.अर्हसि.॥9
अघ्न्यास्ये.घोर.रूपे.वर.रूपे.विनाशनि.।
जम्भिताः.प्रत्या.गृभ्णीष्व.स्वयम्.आदाय.अद्भुतम्.।
त्वम्.इन्द्रो.यमो.वरुणस्.त्वम्.आपो.अग्निर्.अथ.अनिलः.।
ब्रह्मा.चैव.रुद्रश्.च.त्वष्टा.चैव.प्रजापतिः.।
आवर्तध्वम्.निवर्तध्वम्.ऋतवः.परिवत्सराः.।
अहोरात्राश्.च.अब्दाश्.च.त्वम्.दिशः.प्रदिशश्.च.मे.।
त्वम्.इन्द्रो.यमो.वरुणस्.त्वम्.आपो.अग्निर्.अथ.अनिलः.।
अत्याहृत्य.पशून्.देवान्.उत्पातयस्व.अद्भुतम्.॥10
अभ्यक्तास्.तास्.स्वलंकृतास्.सर्वान्.नो.दुरितम्.जहि.।
जानीथाश्.चैव.कृत्यानाम्.कर्तॄन्.नॄन्.पाप.चेतसः.।
यथा.हन्ति.पूर्व.असिनम्.तया.एव.इष्वा.असकृज्.जनः.।
तथा.त्वया.युजा.वयम्.तस्य.निकृण्म.स्थास्.तु.जङ्गमम्.।
उत्तिष्ठा.एव.परेहि.इतो.अघ्न्यास्ये.किम्.इह.इच्छसि.।
ग्रीवास्.ते.कृत्ये.पदा.च.अपि.कर्त्स्यामि.निर्द्रव.।
स्वायसा.सन्ति.नो.असयो.विद्मश्.चैव.परूंषि.ते.।
तै.स्थ.निकृण्म.स्थान्य्.उग्रे.यदि.नो.जीवयस्व.ईम्.।
मा.अस्य.उत्.शिषो.द्विपदम्.मोच.किंचिच्.चतुष्पदम्.।
मा.ज्ञातीर्.अनुजास्वन्वा.मा.वेशम्.प्रतिवेशिना.॥11
शत्रूयता.प्रहिताम्.इमाम्.येन.अभि.यथा.यथा.।
ततस्.तथा.त्वा.आनुदतु.यो.अयम्.अन्तर्.मयि.श्रितः.।
एवम्.त्वम्.निकृता.अस्माभिर्.ब्रह्मणा.देवि.सर्वशः.।
यथा.तम्.आश्रितम्.कर्त्वा.पापहीर्.एव.नो.जहि.।
देवास्.तम्.सर्वे.धूर्वन्तु.ब्रह्म.वर्म.मम.अन्तरम्.।
यथा.विद्युद्द्.हतो.वृक्ष.आ.मूलाद्.अनुशुष्यति.।
एवम्.स.प्रति.शुष्यतु.नो.मे.पापम्.चिकीर्षति.।
यथा.प्रतिहिता.भूत्वा.ताम्.एव.प्रतिधावति.।
पापम्.तम्.एव.धावतु.यो.मे.पापम्.चिकीर्षति.।
कुवीरम्.ते.सुखम्.रुद्रम्.नन्दीमानम्.विमथ.ह.।
ब्रह्म.वर्म.मम.अन्तरम्.शर्म.वर्म.मम.अन्तरम्.घर्म.वर्म.मम.अन्तरम्.॥12(प्.115)
मूल पाठ: Ṛgvedakhilāni · Edition: J. Scheftelowitz: Die Apokryphen des Rgveda (Khilani). Breslau 1906 (Indische Forschungen 1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0