ऋग्वेदखिलानि · अध्याय 4.11
येन.इदम्.भूतम्.भुवनम्.भविष्यत्.परिगृहीतम्.अमृतेन.सर्वम्.।
येन.यज्ञस्.तायते.सप्त.होता.तन्.मे.मनश्.शिव.संकल्पम्.अस्तु.।
येन.कर्माण्य्.अपसो.मनीषिणो.यज्ञे.कृण्वन्ति.विदथेषु.धीराः.।
यद्.अपूर्वम्.यक्षम्.अन्तः.प्रजानान्.तन्.मे.मनश्.शिव.संकल्पम्.अस्तु.।
यत्.प्रज्ञानम्.उत.चेतो.धृतिश्.च.यज्.ज्योतिर्.अन्तर्.अमृतम्.प्रजासु.।
यस्मान्.न.ऋते.किंचन.कर्म.क्रियते.तन्.मे.मनश्.शिव.संकल्पम्.अस्तु.।(प्.127)
यज्.जाग्रतो.दूरम्.उदैति.दैवम्.तद्.उ.सुप्तस्य.तथ.एव.एति.।
दूरंगमम्.ज्योतिषाम्.ज्योतिर्.एकम्.तन्.मे.मनश्.शिव.संकल्पम्.अस्तु.।
यस्मिन्.ऋचस्.साम.यजूंषि.यस्मिन्.प्रतिष्ठिता.रथ.नाभा.विवराः.।
यस्मिंश्.चित्तम्.सर्वम्.ओतम्.प्रजानान्.तन्.मे.मनश्.शिव.संकल्पम्.अस्तु.।
सुषारथिर्.अश्वान्.इव.यन्.मनुष्यान्.नेनीयते.अभीशुभिर्.वाजिन.इव.।
हृत्.प्र्थिष्ठम्.यद्.अजिरम्.जविष्ठम्.तन्.मे.मनश्.शिव.संकल्पम्.अस्तु.॥20
यद्.अत्र.षष्ठम्.त्रिशतम्.शरीरम्.यज्ञस्य.(...).ह्यन्.नव.नाभम्.आद्यम्.।
दश.पञ्च.त्रिंशतम्.यत्.परम्.च.तन्.मे.मनश्.शिव.संकल्पम्.अस्तु.।
ये.पञ्च.पञ्चा.दशतम्.शतम्.च.सहस्रम्.च.नियुतम्.न्यर्बुदम्.च.।
ते.यज्ञ.चित्त.इष्टकात्.तम्.शरीरम्.तन्.मे.मनश्.शिव.संकल्पम्.अस्तु.।
वेद.अहम्.एतम्.पुरुषम्.महान्तम्.आदित्य.वर्णम्.तमसः.परस्तात्.।
(..).उ.(..).न्त्.(..).धीरास्.तन्.मे.मनश्.शिव.संकल्पम्.अस्तु.।
येन.कर्माणि.प्रचरन्ति.धीरा.विप्रा.वाचा.मनसा.कर्मणा.च.।
संविदम्.अनु.सम्यन्ति.प्राणिनस्.तन्.मे.मनश्.शिव.संकल्पम्.अस्तु.।
ये.मनो.हृदयम्.ये.च.देवा.ये.अन्तरिक्षे.बहुधा.चरन्ति.।
ये.स्रोत्रम्.चक्षुषी.संचरन्ति.तन्.मे.मनश्.शिव.संकल्पम्.अस्तु.।
येन.द्यौर्.उग्रा.पृथिवी.च.अन्तरिक्षम्.ये.पर्वताः.प्रदिशो.दिशश्.च.।
येन.इदम्.जगत्य्.आप्तम्.प्रजानान्.तन्.मे.मनश्.शिव.संकल्पम्.अस्तु.।
येन.इदम्.सर्वम्.जगतो.बभूवुर्.ये.देवा.अपि.महतो.जातवेदाः.।
तद्.इव.अग्निस्.तपसो.ज्योतिर्.एकम्.तन्.मे.मनश्.शिव.संकल्प्मम्.अस्तु.।
तुभ्य.इदम्.(तुभ्येयम्).इन्द्र.परि.षिच्यते.मधु.॥21(प्.128)
मूल पाठ: Ṛgvedakhilāni · Edition: J. Scheftelowitz: Die Apokryphen des Rgveda (Khilani). Breslau 1906 (Indische Forschungen 1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0