भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदखिलानि · अध्याय 3.5

3.5.1

उपमन्.त्वा.मघोनाम्.ज्येष्ठम्.च.वृषभाणाम्.।
पूर्भित्तमम्.मघवन्न्.इन्द्र.गोविदम्.ईशानम्.राय.ईमहे.।

3.5.2

य.आयन्.कुत्सम्.अतिथिग्वम्.अर्दयो.वावृधानो.दिवे.दिवे.।
तन्.त्वा.वयम्.हर्यश्वम्.शतक्रतुम्.वाजयन्तो.हवामहे.।

3.5.3

आ.नो.विश्वेषाम्.रसम्.मध्वस्.सिञ्चन्त्य्.अद्रयः.।
ये.परावति.सुन्विरे.जनेष्व्.आ.ये.अर्वावती.इन्दवः.।

3.5.4

विश्वा.द्वेषांसि.जहि.च.अव.चा.कृधि.विश्वे.सुन्वन्त्व्.आ.वसु.।
शीर्ष्टेषु.चित्.ते.मदिरासो.अंशवो.यत्रा.सोमस्य.तृम्पसि.।

3.5.5

इन्द्र.नेदीय.आ.इद्.इहि.मित.मेधाभिर्.ऊतिभिः.।
आ.शन्तम.शंतमाभिर्.अभिष्टिभिर्.आ.स्वापे.स्वापिभिः.।

3.5.6

आजि.तुरम्.सत्पतिम्.विश्व.चर्षणिम्.कृधि.प्रजास्व्.आभगम्.।
प्र.सू.तिरा.शचीभिर्.ये.त.उक्थिनः.क्रतुम्.पुनत.आनुषक्.।

3.5.7

यस्.ते.साधिष्ठो.अवसे.ते.स्याम.भरेषु.ते.।
वीतिहोत्राभिर्.उत.देव.हूतिभिस्.ससवांसो.विशृण्विरे.।

3.5.8

अहम्.हि.ते.हरिवो.ब्रह्म.वाजयुर्.आजिम्.यामि.सदोतिभिः.।
त्वाम्.इद्.एव.तम्.अमे.सम्.अश्वयुर्.गव्युर्.अग्रे.मतीनाम्.॥10

मूल पाठ: Ṛgvedakhilāni · Edition: J. Scheftelowitz: Die Apokryphen des Rgveda (Khilani). Breslau 1906 (Indische Forschungen 1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc