भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदखिलानि · अध्याय 3.6

3.6.1

एतत्.त.इन्र.वीर्यम्.गीर्भिर्.गृणन्ति.कारवः.।
ते.स्तोभन्त.ऊर्जम्.आवन्.घृत.श्चुतम्.पप्रासो.नक्षन्.धीतिभिः.।

3.6.2

नक्षन्त.इन्द्रम्.अवसे.षुकृत्यया.येषाम्.सुतेषु.मन्दसे.।
यथा.संवर्ते.अमदो.यथा.कृश.एव.अस्मे.इन्द्र.मत्स्व.।

3.6.3

आ.नो.विश्वे.सजोषसो.देवासो.गन्तन.उप.नः.।
वसवो.रुद्रा.अवसे.न.आ.गमम्.शृण्वन्तु.मरुतो.हवम्.।

3.6.4

पूषा.विष्णुर्.हवनम्.मे.अरस्वत्य्.अवन्तु.सप्त.सिन्धवः.।
आपो.वातः.पर्वतासो.वनस्पतिश्.शृणोतु.पृथिवी.हवम्.॥11

3.6.5

यद्.इन्द्र.राधो.अस्ति.ते.मघोनम्.मघवत्तम.।
तेन.नो.बोधि.सधमाद्यो.वृधे.भगो.दानाय.वृत्रहन्.।.(.प्.94.).

3.6.6

आजिपते.नृपते.त्वम्.इद्.धि.नो.वाज.आभक्षि.सुक्रतो.।
वयम्.होत्राभिर्.उत.देव.हूतिभिस्.ससवांसो.मनामहे.।

3.6.7

सन्ति.ह्य्.अर्य.आशिष.इन्द्र.आयुर्.जनानाम्.।
अस्मान्.नक्षस्व.मघवन्न्.उप.अवसे.धुक्षस्व.पिप्युषीम्.इषम्.।

3.6.8

वयम्.त.इन्द्र.स्तोमेभिर्.विधेम.त्वम्.अस्माकम्.शतक्रतो.।
महि.स्थूरम्.शशयम्.राधो.अह्रयम्.प्रस्कण्वाय.इन्तोसय.॥12

मूल पाठ: Ṛgvedakhilāni · Edition: J. Scheftelowitz: Die Apokryphen des Rgveda (Khilani). Breslau 1906 (Indische Forschungen 1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc