भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदखिलानि · अध्याय 3.4

3.4.1

यथा.मनौ.विवस्वति.सोमम्.शक्र.अपिबस्.सुतम्.।
यथा.त्रिते.छन्द.इन्द्र.जुजोषस्य्.आयौ.मादयसे.सचा.।

3.4.2

पृषध्रे.ंध्ये.मातरिश्वनि.इन्द्र.सुवाने.अमन्दथः.।
यथा.सोमम्.दश.सिप्रे.दशोण्ये.(.दश.उण्ये.).स्यूम.रश्माव्.ऋजीनसि.।

3.4.3

य.उक्था.केवला.दधे.यस्.सोमम्.धृषत.अपिबत्.।
यस्मै.विष्णुस्.त्रीणि.पदा.विचक्रम.उप.मित्रस्य.धर्मभिः.।

3.4.4

यस्य.त्वम्.इन्द्र.स्तोमेषु.चाकनो.वाजे.वाजिन्.शत.क्रतो.।
तन्.त्वा.वयम्.सुदुघाम्.इव.गोदुहे.जुहूमसि.श्रवस्सु.च.।

3.4.5

यो.नो.दाता.स.नः.पिता.महान्.उग्र.ईशान.कृत्.।
अयामन्न्.उग्रो.मघवा.पुरूवसुर्.गोर्.अश्वस्य.प्र.दाति.नः.॥7

3.4.6

यस्मै.त्वम्.वसो.दानाय.मन्हसे.स.रायस्.पोषम्.इन्वति.।
वसूयवो.वसु.पतिम्.शत.क्रतुम्.स्तोमैर्.इन्द्रम्.हवामहे.।

3.4.7

कदा.चन.प्र.युच्छस्य्.उब्ः.नि.पासि.जन्मनी.।
तुरीय.आदित्य.सवनम्.त.इन्द्रियम्.आ.तस्थाव्.अमृतम्.दिवि.।

3.4.8

यस्मै.त्वम्.मघवन्न्.इन्द्र.गिर्वणस्.शिक्षो.शिक्षति.दाशुषे.।
अस्माकम्.गिर.उत.सुष्टुतिम्.वसो.कण्ववत्.शृणुधी.हवम्.।

3.4.9

अस्तावि.मन्म.पूर्व्यम्.ब्रह्म.इन्द्राय.वोचत.।
पूर्वीर्.ऋतस्य.बृहतिर्.अनूषत.स्तोतुर्.मेधा.असृक्षत.।

3.4.10

सम्.इन्द्रो.रायो.बृहतीर्.अधूनुत.सम्.क्षोणी.सम्.उ.सूर्यम्.।
सम्.शुक्रासश्.शुचयस्.सम्.गवाशिरस्.सोमा.इन्द्रम्.अमन्दिषुः.॥8.(.प्.92.).

मूल पाठ: Ṛgvedakhilāni · Edition: J. Scheftelowitz: Die Apokryphen des Rgveda (Khilani). Breslau 1906 (Indische Forschungen 1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc