ऋग्वेदखिलानि · अध्याय 3.3
यथा.मनौ.सांवरणम्.सोमम्.इन्द्र.अपिबस्.सुतम्.।
निपातिथौ.मघवन्.मेध्यातिथौ.पुष्टिगौ.श्रुष्टिगौ.सचा.।
पार्षद्वानः.प्रस्कण्वम्.सम्.असादयत्.शयानम्.जिव्रिम्.उद्धितम्.।
सहस्राण्य्.आसिषासद्.गवाम्.ऋषिस्.त्वा.उतो.दस्यवे.वृकः.।
य.उक्थेभिर्.न.विन्धते.चिकिद्.य.ऋषि.चोदनः.।
इन्द्रम्.तम्.अच्छा.वद.नव्यस्या.मत्य्.आविष्यन्तम्.न.भोजसे.।
यस्मा.अर्कम्.सप्त.शीर्षाणम्.आनृचुस्.त्रिधातुम्.उत्तमे.पदे.।
स.त्व्.इमा.विश्वा.भुवनानि.चिक्रदद्.आद्.इज्.जनिष्ट.पौंस्यम्.।
यो.नो.दाता.वसूनाम्.इन्द्रम्.तम्.हूमहे.वयम्.।
विद्मा.ह्य्.अस्य.सुमतिम्.नवीयसीम्.गमेम.गोमति.व्रजे.॥5
यस्मै.त्वम्.वसो.दानाय.शिक्षसि.स.रायस्.पोषम्.अश्नुते.।
तन्.त्वा.वयम्.मघवन्न्.इन्द्र.गीर्वणस्.सुतावन्तो.हवामहे.।
कदा.चन.स्तरीर्.असि.न.इन्द्र.सश्चसि.दाशुषे.।
उप.उप.इन्.नु.मघवन्.भूय.इन्.नु.त्.दानन्.देवस्य.पृच्यते.।
प्र.यो.ननक्षे.अभ्य्.ओजसा.क्रिविम्.वधैश्.शुष्णम्.निघोषयन्.।
यदा.इद्.अस्तम्भीत्.प्रथयन्न्.अमून्.दिवम्.आद्.इज्.जनिष्ट.पार्थिवः.।
यस्य.अयम्.विश्व.आर्यो.दासश्.शेवधिपा.अरिः.।
तिरश्.चिद्.अर्ये.रुशमे.पवीरवि.तुभ्येत्.सो.अज्यते.रयिः.।
तुरण्यवो.मधुमन्तो.घृत.श्चुतो.विप्रासो.अर्कम्.आनृचुः.।
अस्मे.रयिः.पप्रथे.वृष्ण्यम्.शवो.अस्मे.सुवानास.इन्दवः.॥6.(.प्.91.).
मूल पाठ: Ṛgvedakhilāni · Edition: J. Scheftelowitz: Die Apokryphen des Rgveda (Khilani). Breslau 1906 (Indische Forschungen 1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0