ऋग्वेदखिलानि · अध्याय 3.2
प्र.सु.श्रुतम्.सुराधसम्.अर्चा.शक्रम्.(.अभिष्ट.).ये(.अभिष्टये.).
यस्.सुन्वते.स्तुवते.काम्यम्.वसु.सहस्रेण.इव.मन्हते.।
शत.अनीका.हेतयो.अस्य.दुष्टारा.इन्द्रस्य.समिषो.महीः.।
शिनिर्.न.भुज्मा.मघवत्सु.पिन्वते.यद्.ईम्.सुता.अमन्दिषुः.।
यद्.ईम्.सुतास.इन्दवोभि.प्रियम्.अमन्दिषुः.।
आपो.न.धायि.सवनम्.म.आ.वसो.दुघा.इव.उप.दाशुषे.।
अनेहसम्.वो.हवमानम्.ऊतये.मध्वः.क्षरन्ति.धीतयः.।
आ.त्वा.वसो.हवमानास.इन्दव.उप.स्तोत्रेषु.दधिरे.।
आ.नस्.सोमे.स्वध्वर.इयानो.अत्यो.न.तोशते.।
यन्.ते.स्वधावन्.स्वधयन्ति.गूर्तयः.पौरे.छन्दयसे.हवम्.॥3
प्र.वीरम्.उग्रम्.विविचिन्.धनस्पृतम्.विभूतिम्.राधसो.महः.।
उद्रीव.वज्रिन्न्.अवतो.वसुत्वना.सदा.पीपेथ.दाशुषे.।
यद्.ध.नूनम्.परावति.यद्.वा.पृथिव्यान्.दिवि.।
युजान.इन्द्र.हरिभिर्.महेमत.उग्र.ऋष्वेभिर्.आ.गहि.।
रथिरासो.हरयो.ये.ते.अस्रिध.ओजो.वातस्य.पिप्रति.।
येभिर्.नि.दास्युम्.मनुषो.निघोषयो.येभिस्.स्वः.परीयसे.।
एतावतस्.ते.वसो.विद्याम.शूर.नव्यसः.।
यथा.प्रावो.मघवन्.मेध्यातिथिम्.यथा.निपातिथिन्.धने.।
यथा.कण्वे.मघवन्.मेधे.अध्वरे.दीर्घ.नीथे.दमूनसि.।
यथा.गोशर्ये.असिषासो.अद्रिवो.मयि.गोत्रम्.हरि.श्रियम्.॥4.(.प्.90.).
मूल पाठ: Ṛgvedakhilāni · Edition: J. Scheftelowitz: Die Apokryphen des Rgveda (Khilani). Breslau 1906 (Indische Forschungen 1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0