ऋग्वेदखिलानि · अध्याय 3.1
अभि.प्र.वस्.सुराधसम्.इन्द्रम्.अर्च.यथा.विदे.।
यो.जरितृभ्यो.मघवा.पुरूवसुस्.सहस्रेण.इव.शिक्षति.।
शत.अनीका.इव.प्रजिगाति.धृष्णुया.हन्ति.वृत्राणि.दाशुषे.।
गिरेर्.इव.प्र.रसा.अस्य.पिन्विरे.दत्राणि.पुरु.भोजसः.।
आ.त्वा.सुतास.इन्दवो.मदा.य.इन्द्र.गिर्वणः.।
आपो.न.वज्रिन्न्.अन्व्.ओक्यम्.सरः.पृणन्ति.शूर.राधसे.।
अनेहसम्.प्रतरणम्.विवक्षणम्.मह्वस्.स्वादिष्ठम्.ईम्.पिब.।
या.यथा.मन्द.सानः.किरासि.नः.प्र.क्षुद्रा.इव.त्मना.धृषत्.।
आ.नस्.स्तोमम्.उप.द्रवद्.धियानो.अश्वो.न.सोतृभिः.।
यन्.ते.स्वधावन्.स्वदयन्ति.धेनव.इन्द्र.कण्वेषु.रातयः.॥1
उग्रम्.न.वीरन्.नमसा.उप.स्दिम.विभूतिम्.अक्षितावसुम्.।
उद्रीव.वज्रिन्न्.अवतो.न.सिञ्चते.क्षरन्ति.इन्द्र.धीतयः.।
यद्.ध.नूनम्.यद्.वा.यज्ञे.यद्.वा.पृथिव्याम्.अधि.।
अतो.नो.यज्ञम्.आशुभिर्.महेमत.उग्र.ऋष्वेभिर्.आ.गहि.।
अजिरासो.हरयो.ये.त.आशवो.वाता.इव.प्रसक्षिणः.।
येभिर्.अपत्यम्.मनुषः.परीयसे.येभिर्.विश्वम्.स्वर्.दृशे.।.(.प्.89.).
(.एतावतस्.त.इमह.इन्द्र.).सुम्नस्य.गोमतः.।
यथा.प्राव.एतशम्.कृत्व्ये.धने.यथा.वशन्.दश.व्रजे.।
यथा.कण्वे.मघवन्न्.त्रसदस्यवि.य्.(.अथा.पक्थे.द.).श.व्रजे.।.(.दश.व्रजे.).
यथा.गोशर्ये.असनोर्.ऋजिश्वनि.इन्द्र.गोमद्द्.हिरण्यवत्.॥
मूल पाठ: Ṛgvedakhilāni · Edition: J. Scheftelowitz: Die Apokryphen des Rgveda (Khilani). Breslau 1906 (Indische Forschungen 1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0