भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदखिलानि · अध्याय 3.16

3.16.1

उत्तुद.एनम्.गृहपते.ज्ञातेभ्यश्.शयनाद्.अधि.।
ग्रीवा.गृहीत्वा.उत्तिष्ठ.पादतो.न.विवेशय.।

3.16.2

उत्.खाद्.उदन्तु.मरुत.उत्.समुद्राम्.अतो.दधि.।
क्रत्वायम्.अग्निर्.दहतु.क्रत्वा.तपतु.सूर्यः.।

3.16.3

काम.शय्या.अर्थे.अभितप्ताम्.यथा.स्त्रियम्.शोषयसि.।
एवम्.शोषय.नो.रातीर्.दिवा.नक्तम्.दशस्यतम्.।

3.16.4

इमाम्.मे.मित्रावरुणौ.कृधि.चित्तेन.व्यस्यताम्.।
दत्त्वा.पीत्वा.अग्रतः.कृत्वा.यथा.अस्याम्.देवशो.वशे.।

3.16.5

परान्.कृणुष्व.दासान्.देवी.वशान्.अन्ववायिनः.॥
अधिष्ठाय.पदा.मूर्ध्नि.सान्वयम्.शाश्वतीस्.समा.॥27

3.16.6

ऋतुभिस्.त्वा.आर्तवेभिर्.आयुषा.सह.वर्चसा.।
संवत्सरस्य.तेजसा.तेन.मा.सह.शुन्धत.।

3.16.7

अनेन.ब्रह्मणा.अग्ने.त्वम्.अयम्.च.इन्द्रो.न.ईडितः.।
संराजम्.च.आधिपत्यम्.च.स्वानाम्.कृणु.तम्.उत्तमम्.।

3.16.8

अग्ने.निजहि.संहितान्.इषून्.मर्मणि.मर्मणि.।
खादिरम्.हृदि.शङ्कुम्.नो.द्विषतो.न.विवेशय.।

मूल पाठ: Ṛgvedakhilāni · Edition: J. Scheftelowitz: Die Apokryphen des Rgveda (Khilani). Breslau 1906 (Indische Forschungen 1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc