भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदखिलानि · अध्याय 3.15

3.15.1

मम.व्रते.हृदयम्.ते.दधामि.मम.चित्तम्.अनु.चित्तम्.ते.अस्तु.।
मम.वाचम्.एक.व्रता.जुषस्व.बृहस्पतिस्.त्वा.नियुनक्तु.मह्यम्.।

3.15.2

धाता.त्वा.मह्यम्.अददन्.मह्यम्.धाता.दधातु.त्वा.।
प्र.धाता.त्वा.मह्यम्.प्रायच्छन्.मह्यम्.त्वा.अनुमतिर्.ददौ.।

3.15.3

अनुमतेनु.मन्यस्व.स्वानुमतेनु.मन्यस्व.।
मह्यम्.एनम्.सम्.आकुरु.वाचा.चक्षुषा.मनसा.मयि.सम्यतम्.।

3.15.4

आहरयत्.ते.हृदयम्.तद्.अस्तु.हृदयम्.मम.।
अथो.यन्.मम.हृदयम्.तद्.अस्तु.हृदयम्.तव.।

3.15.5

हृदयेन.हृदयम्.प्राणेन.प्राणम्.अगृभम्.।
गृभ्णामि.चक्षुषा.चक्षुर्.गृभ्णामि.मनसा.मनः.।

3.15.6

आकूतम्.चित्तम्.चक्षुश्.श्रोत्रम्.अथो.बलम्.।
श्रियम्.याम्.देवा.जग्मुस्.तया.बध्नामि.ते.मनः.।

3.15.7

अन्नमयेन.मणिना.प्राण.सूत्रेण.पृश्निना.।
बध्नामि.सत्य.ग्रथिना.हृदयम्.च.मनश्.च.ते.।

3.15.8

आवर्तनम्.निवर्तनम्.मया.संवननम्.तव.।
इन्द्राग्नी.अश्विना.उभा.त्वष्टा.धाता.च.चक्रतुः.।

3.15.9

येन.चित्तेन.वदसि.येन.त्वा.अन्यो.अभिदासति.।
सर्वम्.तद्.अग्न.आभर.मह्यम्.दासाय.राध्यः.।

3.15.10

अनुवनम्.सुवनम्.उद्वनम्.वनम्.।
घर्मस्य.पश्य.रूपाणि.तेन.बध्नामि.ते.मनः.॥22.(.प्.100.).

3.15.11

सम्.मा.विशन्तु.पशवस्.सम्.मा.विशन्त्व्.ओषधीः.।
सम्.मा.विशन्तु.राजानो.यथा.अहम्.कामये.तथा.।

3.15.12

अनन्त.रोहम्.तुभ्यम्.भूयासम्.हृदयम्.मे.भूयासम्.अनन्तरम्.।

3.15.13

सभा.सम्.आसाव्.इतुश्.च.अवताम्.उभे.प्रजापतेर्.दुहितारौ.सचेतसौ.।
संगथेषु.पदे.चारु.नमो.वैश्वानराय.अधि.।

3.15.14

(...).य.पदेन.त.आ.ते.प्राणान्.समाददे.।
अथो.एतत्.समाददे.यद्.अन्येषु.जनेषु.च.।

3.15.15

अहम्.ते.चक्षुषा.चक्षुर्.अहम्.ते.मनसा.मनः.।
अहम्.गन्धर्व.रूपेण.सन.आवर्तयामि.ते.।23

3.15.16

हत.चित्तो.हत.मनो.हतो.अन्येषु.ते.मनः.।
सर्वेषु.कृष्ण.केशेषु.हतो.अन्येषु.ते.मनः.।

3.15.17

माम्.च.एव.पश्य.सूर्यम्.च.मा.तृतीयम्.कदाचन.।

3.15.18

स्मृतिर्.असि.काम.संजननी.मयि.ते.कामो.अस्तु.।
यत्.ते.मनो.वरेण्यम्.लोकेषु.बहुधा.कृतम्.।

3.15.19

समुद्रम्.इव.सरितस्.सर्वम्.त्वा.अनुवर्तयामसि.।
आदीपयामि.ते.हृदयम्.अग्ना.मे.व.प्रदीपयामसि.।

3.15.20

एष.ते.हृदय.इङ्गारो.दीप्तस्.ते.अस्मि.दह्यसे.।
मया.ते.दह्यमानस्य.अग्निर्.दांसेन.न.तृप्यतु.भूमिर्.दांसेन.तृप्यतु.॥24

3.15.21

चित्तम्.च.ते.मनश्.च.ते.मयि.धाता.नियच्छतु.।
मयि.ते.चित्तम्.आयत्तम्.मनस्.ते.मयि.समश्नुते.।

3.15.22

आवृतास्.ते.मया.प्रा.(..
ब्लन्क्.

3.15.26

नष्टम्.ते.कृपम्.अन्यस्मिन्.मयि.ते.रमताम्.मनः.।
अनु.(...).मनः.।

3.15.27

चक्षुश्.श्रोत्रम्.च.अधीतम्.च.सर्वम्.ते.अहम्.आददे.।
हृद्य.ऋषिर्.अजायत.दे.(...).।.(.प्.101.).

3.15.28

तद्.एव.एष्व्.अदधुर्.हृदयेष्व्.अर्थ.दर्शिनम्.।
सर्वज्ञम्.सर्व.दर्शिनम्.स.नः.कर्माणि.साधय.।

3.15.29

ये.(...).स्तव.जातवेदः.प्रविष्टा.अग्निर्.दुर्हृदयस्य.कर्म.।
तेषाम्.अहम्.भागधेयम्.जुहोमि.तम्.मा.देवास्.सर्वैः.कामैस्.तर्पयन्ताम्.।

3.15.30

भृगूणाम्.अङ्गिरसाम्.तपसो.गृण.सम्यतम्.।
कुशिक.अभ्यवराणाम्.च.मन.आवर्तयामि.ते.।

3.15.31

यत्.ते.मनो.वरेण्यम्.लोकेषु.बहुधा.कृतम्.।
तत्.त.आवर्तयामस्य्.अध्रिश्.च.अहश्.च.ब्राह्मणः.।

3.15.32

यत्.कक्षीवान्.संवननम्.पुत्रो.अङ्गिरसाम्.अवेत्.।
तेन.नो.अद्य.विश्वे.देवास्.सम्.प्रियाम्.सम्.अवीवनन्.॥26.(.प्.102.).

मूल पाठ: Ṛgvedakhilāni · Edition: J. Scheftelowitz: Die Apokryphen des Rgveda (Khilani). Breslau 1906 (Indische Forschungen 1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc